________________
३६०
बृहत्कल्प-छेदसूत्रम् - २-३/८१
व्यक्षरको वा व्यक्षरिका वा केनचिदपह्नता, स्नुषा वा केनचिद् धूर्तेन सह पलायिता, 'वृत्तखुरो वा' प्रधानस्तुरङ्गमो नष्टो भवेत् ततः साधु-साध्वीविषया शङ्का भवेत् नूनमेतैरेवापहृतम् दग्धमित्यादि ततो नाविधिना पृच्छेत् न वा दर्शयेत् ॥ तत्र चाऽऽ सीनास्ते साधवो न हसन्ति न वा कन्दर्पं कुर्वन्ति, किन्तु[भा. ३७८]
सेज्जायराण धम्मं, कहिंति अज्जाण देंति अनुसद्धिं । धम्मम्मिय कहियम्मिय, सव्वे संवेगमावन्ना ॥
वृ- शय्यातराणां धर्मं कथयन्ति आर्याणां चोद्यतानां स्थिरीकरणार्थं सीदन्तीनां पुनरुद्यमनार्थमनुशिष्टिं प्रयच्छन्ति । धर्मे च कथिते 'सर्वे' श्राद्धाः संयत्यश्च संवेगमापन्ना भवन्ति, आत्मनश्च निर्जरा भवति ।। प्राघुणकद्वारमेव प्रकारान्तरेण व्याचष्टे
[भा. ३७४९] अन्नो वि अ आएसो, पाहुणग अभासिया उ तेनभए । चिलिमिणिअंतरिया खलु, चाउस्साले वसेज्जा नं ॥
वृ- अयम् 'अन्यः' अपर आदेशः प्राघुणकद्वारे समस्ति ते प्राघुणकाः 'अभाषिकाः' द्रविडादिदेशोद्भवाः, ततस्तत्र तेषामुपाश्रयो दुर्लभः, अतस्तदर्थं संयत्यो वसतिं मार्गयन्ति । यदि ताभिरपि गवेषयन्तीभिर्न लब्धा ततो वृक्षमूलादिषु बहिर्वसन्ति । अथ बहि स्तेनभयं ततो यत्रार्या स्थिताः सन्ति तत् चतुःशालं भवेत्, तत्रान्यस्यां शालायां साधवश्चिलिमिलिकया अन्तरिता वसेयुः ॥ चतुःशालस्याभावे विधिमाह
[भा. ३७५० ] कुर्डुतरस्स असती, कडओ पुत्ती व अंतरे थेरा । तेसंतरिया खुड्डा समणीण वि मग्गणा एवं ॥
वृ- अन्यस्या वसतेरभावे संयताः सयत्यश्चेकस्मिन् गृह वसन्तः कुड्यान्तरिते वसन्ति । कुड्यान्तरस्याभावे कटकोऽपान्तराले दीयते । कटकस्याभावे पोतं वस्त्रं तन्मयी चिलिमिलिका । अथ चिलिमिलिकायाः स्तेनभयं ततो यस्मिन् पार्श्वे संयत्यस्ततः प्रथमं स्थविराः, तैरन्तरिताः क्षुल्लकाः, ततो मध्यमाः, ततस्तरुणा इति । एवं श्रमणीनामपि मार्गणा कर्तव्या, तद्यथा- स्थविरसाधूनामासने क्षुल्लिकाः, ततः स्थविराः, ततो मध्यमाः, ततो ध्ढकुड्यासन्ने तरुण्यः स्थाप्यन्ते ।। तत्रस्थितानां विधिमाह[भा. ३७५१]
अन्नाए आभोगं, नाए ससद्दं करेंति सज्झायं । अच्चुव्वाया व सुवे, अच्छंति व अन्नहिं दिवसं ॥
वृ- यदि तत्र जनेनाज्ञाताः स्थितास्ततो रात्रौ 'आभोगम् उपयोगं कुर्वते, तृष्णीका आसते इत्यर्थः । अथ ज्ञातास्ततः ‘सशब्दं' महता शब्देन युक्तं स्वाध्यायं कुर्वन्ति । अथातीवोद्वाता:परिश्रान्तास्ततः स्वपन्ति । कारणतश्चैकं द्वौ त्रीन् वा दिवसान् तत्रैव यदि स्थास्नवः ततो दिवसम् 'अन्यत्र' उद्यानादिषु स्थित्वा रात्रौ तत्र वसन्ति । कारणाभावे तु तत्रैकरात्रमुषित्वा प्रभाते व्रजन्ति ।। [ भा. ३७५२] समणी समण पविट्ठे, निसंत उल्लावऽकारणे गुरुगा ।
पयला निद्द तुवट्टे, अच्छीमलणे गिही मूलं ॥
यृ- श्रमणीजने श्रमणजने च कायिकां कृत्वा प्रविष्टे सति यद्येको वाऽनेके वा एकया वाऽनेकाभिर्वा संयतीभिः समं 'निशान्ते' निसंचरवेलायामुल्लापम् 'अकारणे' आगाढकारणाभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org