________________
३५१
उद्देशक : ३, मूलं-८१, [भा. ३७००] [भा.३७००] पारणगपट्टिया आनियं च अविगडियऽदंसिय न मुंजे ।
अचियत्त अंतराए, परिताव असब्भवयणे य॥ वृ-क्षपिका चतुर्थादितपःकर्मकारिणी पारणकार्थ प्रस्थिताऽपि ज्येष्ठार्य आगतः' इति मत्वा निवर्तते । प्रवर्तिनी वा तस्य समीपे निविष्टा वर्तते, तया च क्षपिकया पारणकमानीतम्, परम् 'अविकटितम् अनालोचितम् 'अर्शितं वा' अनालोकितं सा न भुङ्क्तं इति कृत्वा प्रवर्तिनी प्रतिपालयन्ती तिष्ठति । ततश्च तस्या अप्रीतिकमन्तरायोऽनागाढमागाढं वा परितापो भवेत् । असभ्यवचनं वा सा ब्रूयात्-अहो ! अयमस्मत्कार्याणां कीलक इव साम्प्रतमुपस्थित इति ॥ विचारद्वारमाह[भा.३७०१] नोल्लेऊण न सका, अंतो वा होज नत्थि वीयारो ।
संते वा न पवत्तति, निच्छुभण विनास गरिहा य ।। इस साधुरिमूले उपविष्टत्वाद् ‘नोदयितुं लङध्यितुं न शक्यते, तासां च संयतीनामन्तः विचारभूमिनास्ति, अस्तिवा परं तस्यां संज्ञा न प्रवर्तते, शय्यातरेण वा सा नानुज्ञाता, तस्यां व्युत्सर्जने निष्काशनमसी कुर्यात्, निष्काशिताश्च श्वापदाभिर्विनाशं लोकाच्च गर्हामासादयन्ति, तनिष्पन्नं तस्य संयतस्य प्रायश्चित्तम् ।। अथ भिक्षाद्वारमाह[मा.३७०२] सइकालफेडणे एसणादिपेल्लंतऽपेल्लणे हानी ।
संकायऽभाविएसु य, कुलेसु दोसा चरंतीणं ।। वृ-संयत्यो भिक्षायां प्रस्थिताः, स च साधुः समायातः, ततस्तस्य दाक्षिण्येन तावत् स्थिता यावद् भिक्षायाः सत्कालः-देशकालः स्फिटितः । ततोऽवेलायां भिक्षामटन्त्य एषणाशुद्धः आदिशब्दाद् उद्गमोत्पादनाशुद्धश्च प्रेरणं कुर्युः अथ न प्रेरयेयुः ततस्तासामात्मनोहानि परितापमहादुःखादिना भवेत् । अभावितकुलेषु वाऽकाले चरन्तीनां शङ्कादयो दोषा भवेयुः । शक्का मैथुनार्थविषया, आदिशब्दाद् भोजिका-घाटिकादिदोषपरिग्रहः ।। अथ स्वाध्यायद्वारमाह[भा.३७०३] सज्झाए वाघातो, विहारभूमिव पत्थिय नियत्ता ।
अकरण नासाऽऽरोवण, सुत्तऽत्थ विना य जे दोसा ।। 'ज्योष्ठार्य आगतः' इति कृत्वा ताः पठनं परावर्तनं वा न कुर्वन्ति, एवं स्वाध्यायव्याघातो भवेत् । वसतौ वा अस्वाध्यायिके जाते 'विहारभूमि' स्वाध्यायमुर्व प्रस्थिताः भूयस्तं समागतं दृष्ट्वा निवृत्ताः, ततः “अकरणे"ति सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रा-ऽर्थनाशनिष्पन्ना चारोपणा, सा चेयम्-सूत्रं नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु । सूत्रा-ऽर्थाभ्यां च विना ये 'दोषाः' चरण-करणहान्यादयस्तनिष्पन्नं सर्वमपि संयतस्य प्रायश्चित्तम् ॥ पालीभेदद्वारमाह[भा.३७०४] संजममहातलागस्स नाणवेरग्गसुपडिपुनस्स ।
सुद्धपरिणामजुत्तो, तस्स उ अणइक्कमो पाली ।। दृ. संयमः पञ्चाश्रवादिविरमणात्मकः स एव महद्-विस्तीर्णं यत् तडागं तस्य, 'ज्ञानवैराग्यसुप्रतिपूर्णस्य' ज्ञानम्-आचारादिश्रुतं तत्समुत्थं यद् वैराग्यं-प्रतिसमयविशुद्धयमानो भवनिर्वेदः तेन जलस्थानीयेन सुष्छु-अतीव प्रतिपूर्णस्य, यः शुद्धपरिणामयुक्तस्तस्यानतिक्रमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org