________________
उद्देशक : ३, मूलं - ८१, [भा. ३६८९]
३४९
जो एत्थं वनोऽणावन्नो वा वि जो एत्थं ॥
वृ- 'एतेषां' स्थानादीनां पदानां प्रत्येकं प्ररूपणा 'विभागश्च' दोषाणां विभाषालक्षणः कर्त्तव्यः । कथम्? इत्याह-यः 'अत्र' दोषजाले प्रायश्चित्तजाते वाऽऽपन्नो यो वाऽ नापन्नः तदेतद् वक्तव्यम् ।। यथाप्रतिज्ञातमेव निर्वाहयति
[ मा. ३६९०] निक्कारणमविहीए, निक्कारणओ तहेव य विहीए । कारणओ अविहीए, कारणतो चेव य विहीए ।
[ मा. ३६९१] आदिभयणाण तिन्हं, अनतरीए उ संजतीसेजं । जे भिक्खू पविसेज्जा, सो पावति आणमादीणि ।।
वृ- साध्वीप्रति श्रये प्रविशतां चत्वारो भङ्गाः, तद्यथा निष्कारणेऽ विधिना साध्वीप्रतिश्रये १ निष्कारणं विधिना २ कारणतोऽविधिना ३ कारणतो विधिना प्रविशति ४ || अत्र ‘आदिभजनानाम्’ आद्यानां त्रयाणां भङ्गानाम् अन्यतरया भजनया- भङ्गकेन संयतीनां शय्यांवसतिं यो भिक्षु प्रविशति स आज्ञादीनि दूषणानि प्राप्नोति ॥ तत्र प्रथमभङ्गव्याख्यानार्थमाह[ मा. ३६९२] निक्कारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं । लहुगा य दारमूले, अतिगयमेत्ते गुरू पुच्छा ।।
वृ- निष्कारणे संयतीवसतिं गच्छतश्चतुर्गुरुकाः । अविधिना च प्रविशतस्त्रिष्वपि स्थानेषु मासिकं गुरुकम् । त्रीणि स्थानानि नाम - अग्रद्वार- मध्या ऽऽ सन्नलक्षणानि, एतेषु नैषेधिकीमकुर्वतस्त्रीणि मासगुरुकाणि भवन्ति । यदि 'द्वारमूले' मूलद्वारसमीपे बहिस्तिष्ठति ततः चतुर्लघवः । अथैकमपि पदमुपाश्रयमध्येऽतिगतः प्रविष्टस्तदा अतिगतमात्रे चतुर्गुरु । “पुच्छित्ति नोदकः पृच्छां करोति ॥ कथम् ? इत्याह
[ भा. ३६९३] पाणाइवायमादी, असेवतो केन होंति गुरुगा उ । कीस व बाहिं लहुगा, अंतो गुरु चोतग ! सुणेहिं ॥
वृ-प्राणातिपातादिकमपराधमसेवमानस्य केन कारणेन चतुर्गुरुका भवन्ति ? कस्माद्वा 'बहि': द्वारमूले चतुर्लघुकाः ? कस्माच्चान्तः प्रविष्टमात्रस्य चतुर्गुरुकम् ? । आचार्य प्राह- हे नोदक ! ''शृणु' निशमयात्र कारण येनैवं प्रायश्चित्तं दीयते ॥ किं तत् ? इत्याह
[भा. ३६९४] वीसत्था य गिलाणा, खमिय वियारे य भिक्ख सज्झाए । पालीय होइ भेदो, अप्पाण परे तदुभए य ॥
वृ- काचिदार्यिका तंत्र 'विश्वस्ता' अपावृतशरीरा भवेत् सा संक्षोभमुपयायात् । ग्लाना वा क्षपिका वा संयतसंक्षोभेण न भुञ्जीत । विचारभूमौ भिक्षायां स्वाध्यायभूमौ वा प्रस्थितानां तासां व्याघातो भवेत् । पाली नाम-संयममहातडागस्यानतिक्रमलक्षणः सेतुः तस्या आत्म-परोभयसमुत्थो भेदो भवति; यद्वा 'पालि”त्ति वसतिपालिका भण्यते, तया सार्द्धमालापादि कुर्वत आत्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो भवतीति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवृणोति[भा. ३६९५ ] काई सुहवीसत्था, दरजिमिय अवाउडा य पयलाति । अतिगतमेत्ते य तहिं, संकिय पपलाइया थद्धा ॥
वृ- काचिदार्यिका वसतेरन्तः स्थिता 'सुखविश्वस्ता' आत्मसुखेनापावृतशरीरा तिष्ठति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org