________________
३४८
बृहत्कल्प-छेदसूत्रम् २-३/८१ वृ-आचार्यो यदि निष्कारणं निर्ग्रन्थीप्रतिश्रयं गच्छति ततश्चत्वारो गुरवः । अभिषेको व्रजति चत्वारो लघवः । गीतार्थभिक्षुर्ब्रजति गुरुको मासः ।अगीतार्थभिक्षुव्रजति लघुको मासः ।। यद्वा[भा.३६८४] गमने दूरे संकिय, निस्संकऽभिलाव कक्ख सतिकरणं ।
ओभासण पडिसुणणे, संपत्ताऽऽरोवणा भणिता ।। वृ-निष्कारणं संयतीनामुपाश्रये गच्छति १ तत्र गतो दूरे स्थितः संयतीः पश्यति एतास्ता इति २ कतरा कतरा पुनरियम् ? इत्येवं शङ्कां करोति ३ अमुका अमुकावा इयमिति निशङ्कितं जानाति ४ संयतीभि समम् 'अभिलाप' संलापं करोति ५ कक्षान्तरादीनि विलोकयति ६ 'स्मृतिकरणम्' 'ईशी ममाप्यासीत्' इति लक्षणं करोति ७ तामवभाषते ८ अवभाषिता सती सा प्रतिशृणोति ९ सम्पत्तिं तया सह करोति १०, एतेषु दशसु स्थानेषु आरोपणा वक्ष्यमाणा भणिता ॥अथात्र स्मृतिकरणपदं व्याचष्टे[भा.३६८५] भावम्मि उ संबंधो, सतिकरणं एरिसा व सा आसि ।
अहवा नं इणमटुं, पणएमि सती भवति एसा ।। १- ‘भावे' भावतः-प्रतिसेवनाभिप्रायेण तया सह यः सम्बन्धः क्रियते, याशी त्वं ईशी 'सा' मद्भार्या आसीत्, एतत् स्मृतिकरणमुच्यते । अथवा 'एतां' संयतीमहम् 'अमुमर्थं' प्रतिसेवनालक्षणं 'प्रणयामि' प्रार्थयामीत्येषां स्मृतिरुच्यते ।
अथानन्तरोक्तेषु दशसु स्थानेषु प्रायश्चित्तमाह[भा.३६८६] चउरो य अनुग्घाया, लहुगो लहुगा य होति गुरुगा य।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ।। वृ-संयतीप्रतिश्रयगमने चत्वारोऽनुद्धाता मासाः । दूरदर्शने मासलघु । शङ्कायां चतुर्लघवः। निशङ्किते चतुर्गुरवः । आलापेषण्मासा लघवः । कक्षान्तराद्यवलोकनेषण्मासा गुरवः । स्मृतिकरणे छेदः । अवभाषणे मूलम् । प्रतिश्रवणेऽनवस्थाप्यम् । सम्पत्त्यां पाराञ्चिकम् । एवं तावदोघतः प्रायश्चित्तमुक्तम् । अथ विभागतस्तदेव दर्शयितुमाह[मा.३६८७] । निक्कारणगमणम्मिं, बहवे दोसा य पञ्चवाता य ।
जिन-थेरपडिकुट्ठा, तेसिं चाऽऽरोवणा इणमो॥ वृ-निष्कारणगमने बहवो दोषाश्च प्रत्यपायाश्च भवन्ति । तत्र दोषा आत्म-परोभयसमुत्थाः पारलौकिकाः, प्रत्यपायाश्च भोगिनी-घाटिकादय ऐहलौकिकाः । ते चोभयेऽपिजिनैः-तीर्थकृभिः स्वविरैश्च-गणधरादिभिः परतिक्रुष्टाः, यथाऽमी भवन्ति तथा न विधेयमित्युपदिष्टमिति भावः । तेषां च दोषाणाम् ‘इयं' वक्ष्यमाणा ‘आरोपणा' प्रायश्चितम् ।। तचैतेषु सूत्रोक्तपदेषु भवति[भा.३६८८] चिडित्त मिसीइत्ता, तुयट्ट निद्दा य पयल सज्झाए ।
झाणा-ऽऽहार-विहारे, पच्छित्ते मग्गणा होइ ॥ वृ-स्थातुं निषत्तुं त्वग्वर्तनं निद्रां प्रचलां स्वाध्यायं ध्यानमाहारं वा कर्तुं विहारं-चक्रमणम् उपलक्षणत्वाद् उच्चार-प्रश्रवणे कायोत्सर्ग वा कर्तुं न कल्पते । अथ करोति ततः प्रायश्चित्तस्य मार्गणा भवति ।। इदमेव प्रकटयति
[भा.३६८९] एतेसिं तु पयाणं, पत्तेय विभागो य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org