________________
३४३
उद्देशक : २, मूलं-७९, [भा. ३६६०] भुक्तोद्वरितानि यतीनां दद्यात्, 'तत्र' तेषु दीयमानेष्वमूनि पञ्च वस्त्राणि कल्पन्ते । अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा' परिग्रहे धर्तुं परिहर्तुं वा परिभोक्तुम् । तद्यथा-जङ्गमाः-त्रसाः तदवयवनिष्पन्नंजामिकम्, सूत्रे प्राकृततवाद् मकारलोपः, भङ्गा-अतसी तन्मयं भाङ्गिकम्, सनसूत्रमयं सानकम्, 'पोतक' कासिकम्, तिरीटः-वृक्षविशेषस्तस्य यः पट्टो वल्कलक्षणस्तन्निष्पन्नं तिरीटपट्टकं नाम पञ्चमम्। एष सूत्रसङ्केपार्थः ॥अथ विस्तरार्थं भाष्यकृद् विभणिषुराह[भा.३६६१] जंगमजायं जंगिय, तं पुन विगलिंदियं च पंचिंदी।
एकेकं पि य एत्तो, होति विभागेनऽनेगविहं ।। वृ-जामेभ्यो जातं जङ्गिकम्, तत् पुनर्विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं वा । अनयोर्मध्ये एकैकमपि विभागेन चिन्त्यमानमनेकविधं भवति ।। तद्यथा[भा.३६६२] पट्ट सुवन्ने मलए, अंसुग चीणंसुके च विगलेंदी ।
उन्नोट्टिय मियलोमे, कुतवे किट्टे च पंचेंदी ।। वृ-“पट्ट"त्ति पट्टसूत्रजम्, “सुवन्ने"ति सुवर्णवर्ण सूत्र केषाञ्चित् कृमीणां भवति तनिष्पन्न सुवर्णसूत्रजम्, मलयो नाम-देशस्तत्सम्भवं मलयजम्, अंशुकः-लक्ष्णपट्टः तनिष्पन्नमंशुकम्, चीनांशुको नाम-कोशिकाराख्यः कृमि तस्माद् जातं चीनांशुकम्, यद्वा चीना नाम जनपदः तत्र यः श्लक्ष्णतरः पट्टस्तस्माद् जातं चीनांशुकम्, एतानि विकलेन्द्रियनिष्पन्नानि ।तथा और्णिकमौष्ट्रिकं मृगरोमजं चेति प्रतीतानि, पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि ।।
अथ भाङ्गिकादीनि चत्वार्यप्येकगाथया व्याचष्टे[भा.३६६३] अतसी-वंसीमादी, उ भंगियं साणियं च सणवक्के ।
पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो ।। अतसीमयंवा “वंसि"त्ति वंशकरीलस्य मध्याद्य निष्पद्यतेतद्द्वा, एवमादिकं भाङ्गिकम्। यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कर्पासमयम् । तिरीटवृक्षवल्काद् जातं तिरीटपट्टकम् ।। [भा.३६६४] पंच परुवेऊणं, पत्तेयं गेण्हमाण संतम्मि।।
कपासिगा य दोन्नि उ, उन्निय एक्को य परिभोगो।। वृ- एवं पञ्च वस्त्राणि प्ररूप्य सम्प्रति ग्रहणविधिरभिधीयते-'प्रत्येकम्' एकैकस्य साधोः प्रायोग्याणि वस्त्राणि गृह्णता 'सति' विद्यमाने लाभे द्वौ कल्पौ कासिकौ एकश्चौर्णिक इत्येवं त्रयः कल्पा ग्रहीतव्याः। परिभोगश्चामीषां वक्ष्यमाणविधिना विधातव्यः । एषा पुरातना गाथा॥
अथैनामेव विवृणोति[भा.३६६५] एकोन्नि सोत्ति दोन्त्री, तिन्नि वि गेण्हिज उन्निए लहुओ।
पाउरमाणे चेवं, अंतो मज्झे व जति उन्नी ।। वृ-एक और्णिकः कल्पो द्वौ वा सौत्रिको प्रत्येकं ग्रहीतव्यौ । अथ त्रीनपि कल्पान् सौत्रिकान् और्णिकान् वा गृह्णाति ततो मासलधु । प्रावृण्वन्नपि यद्येकमौर्णिकं प्रावृणोति ततः ‘एवमेव' मासलघु । 'अन्तर्वा शरीरानन्तरितं 'मध्ये वा' द्वयोः सौत्रिकयोर्मध्यभागे यद्यौर्णिकं प्रावृणोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org