________________
३४२
बृहत्कल्प-छेदसूत्रम् -२-२/७५ यत्तु दत्तं तद् निसृष्टं जानीहि । भुक्तोद्वरितं भूयोऽस्माकं प्रत्यर्पणीयमिति यत् प्रतिज्ञातं तत् प्रातिहारिकम् । इतरत् पुनः' अप्रातिहारिकं सागारिकेण भक्तमुपकरणं वा यत् 'त्यक्तं निर्देयतया दत्तमित्यर्थः । एवंविधं प्रातिहारिकदत्तं शय्यातरपिण्ड इति कृत्वा न ग्रहीतव्यम् ।।
मू. (७६) सागारियस्स पूयाभत्ते उद्देसिए चेइए जाव पाडिहारिए, तं नो सागारिओ देइ नो सागारियस्स परिजणो देजा, सागारियस्स पूया देइ, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ।
पृ.अस्य व्याख्या प्राग्वत् । नवरम् अत्र न सागारिको न वा सागारिकस्य परिजनो दद्यात् किन्तु सागारिकस्य पूज्यः' सम्बन्धि-स्वाभ्यादिर्दद्यात्तथापिन कल्पते, प्रातिहारिकतया दत्तमिति कृत्वा सागारिकपिण्डत्वात् ॥
मू.(७७) सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडियाए सागारियस्स उवगरणजाए निहिए निसट्टे अपाडिहारिए, तं सागारिओ देइ सागारियस्स परिजनो देइ, तम्हा दावए नो से कप्पइ पडिग्गाहितए॥
-अयमप्रातिहारिकतया सागारिकपिण्डो न भवति, परं सागारिकस्तत्परिजनो वा ददातीति कृत्वा प्रक्षेपकादिदोषसद्भावाद् न कल्पते ॥
मू. (७८) सागारियस्स पूयाभत्ते जाव अपाडिहारिए, तं नो सागारिओ देइ, नो सागारियस्स परिजणो देइ, सागारियस्स पूया देइ, तम्हा दावए एवं से कप्पइ पडिगाहित्तए ।
कृ.अत्र सागारिकेणाद्दष्टं तत्पूज्योऽप्रातिहारिकं ददातीति कृत्वा कल्पते, परं द्वितीयपदे, नोत्सर्गतः ॥ यत आह[भा.३६५८] पूयाभत्ते चेतिए, उवकरणे निहितै निसट्टे य ।
- तं पि न कप्पति घेत्तुं, पखेवगमादिनो दोसा ।। वृ- पूज्यानामर्थाय यद् भक्तं 'चेतितं' कृतम्, यचोपकरणं निष्ठितं तत् तेभ्यः 'निसृष्टम्' अप्रातिहारिकतया प्रदत्तं तदपि न कल्पते प्रतिग्रहीतुम्, प्रक्षेपकादयो दोषा भद्रक-प्रान्तकृतामा भूवनिति॥
मू. (७९) कप्पइ निग्गंथाण वा निग्गंधीण वा इमाइं पंच वत्थाइंधारित्तए वा परिहरित्तए वा, तंजहा-जंगिए भंगिए साणए पोत्तए तिरीडपट्टे नामं पंचमे ।।
वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[मा.३६५९]उवगरणं चिय पमयं, तस्स विभागो उ बितिय-चरिमम्मि ।
वाहारो वा वुत्तो, इदाणि उवधिस्स अधिकारो॥ वृ-पूर्वसूत्रे तावदुपकरणमेव प्रकृतम्, अतः 'तस्य' उपकरणस्य 'विभागः' विशेषप्ररूपणं द्वितीयोद्देशकस्य चरमे अन्त्ये सूत्रद्वये क्रियते । अथवा पूर्वसूत्रेषु सप्रपञ्चमाहार उक्तः, इदानीं त्वस्मिन् सूत्रे ‘उपधि (धे) रधिकारः' याईश उपधिग्रहीतुं कल्पते ताइक्प्रतिपाद्यते इति भावः ॥ [भा.३६६०] ताई विरूवरूवाइं देइ वत्थानि तानि वा घेत्तुं ।
सेस जतीणं देजा, तत्थ इमे पंच कप्पंति ॥ वृ- अथवा 'तानि' परिधान-प्रावरण-कम्बलादीनि विरूपरुपाणि वस्त्राणि यदा सागारिकोऽप्रातिहारिकतया ददाति तदा तानि गृहीत्वा पूज्यः कलाचार्यादि 'शेषाणि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org