SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ उद्देशकः२, मूलं-७५, [भा.३६५२] ३४१ वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[मा.३६५३] दब्वे छिन्नमछिन्नं, न कप्पती कप्पए य इति वुत्तं । इदमन्नं पुन भावे, अव्वोच्छिन्नम्मि पडिसिद्धं ।। वृ-द्रव्यतः 'छिन्नं विभक्तं सद् अंशिकाद्रव्यं कल्पते, तदेव 'अच्छिन्नं 'अविभक्तं' न कल्पते इति प्रोक्तम् । इदं पुनरन्यद् अस्मिन् सूत्रे सागारिकस्याव्यवच्छिन्ने भावे प्रतिषिद्धम्, न कल्पते इत्यर्थः ॥ [भा.३६५४] अविसेसिओ व पिंडो, हेछिमसुत्तेसु एसमक्खातो। इह पुन तस्स विभागो, सो पुन उवकरण भत्ते वा ।। वृ-अथवा अधस्तनसूत्रेषु अविशेषितः' विभागरहितः ‘एषः' सागारिकपिण्ड आख्यातः। 'इह पुनः' प्रस्तुतसूत्रे 'तस्य' सागारिकपिण्डस्य विभाग उच्यते । कथम् ? इत्याह-‘स पुनः' पिण्ड उपकरणं वा भवेद् भक्तं वा इति । अनेन सम्बन्धेनायातस्यास्यव्याख्या-सागारिकस्य ये पूज्याः-स्वामि-कलाचार्यादयस्तदर्थं भक्तम्-अशनादि पूज्यभक्तम्, तच्चोद्देशः-सङ्कल्पस्तेन निवृत्तमौदेशिकम्, तानेव पूज्यानुद्दिश्य कृतमित्यर्थः । ततस्तेषामेव प्राभृतिकायां 'चेतितं' दौकनीकृतम्, उपनीतमिति भावः । तथा सागारिकस्य उपकरणजातं-वस्त्र-कम्बलादिकं पूज्यानामर्थाय 'निष्ठितं' निष्पादितम्, ततः 'निसृष्टं पूज्येभ्यः प्रदत्तम् । 'तच भक्तमुपकरणं वा तेभ्यः प्रातिहारिक दत्तम्, भुक्तावशेषं सदिदं भूयोऽप्यस्माकं प्रत्यर्पणीयमिति भावः । तद् एवंप्रकारं संयतानां सागारिको वा दद्यात् सागारिकस्य परिजनो वा दद्यात् किं कल्पते ? न वा? इत्याह- 'तस्मात् पूज्यभक्तात् पूज्योपकरणाद्वा प्रातिहारिकाद् दद्यात् परं न कल्पते प्रतिग्रहीतुमिति सूत्रार्थः ।। अथ भाष्यम्[भा.३६५५] संबंधी सामि गुरू पासंडी वा वि तं समुद्दिस्स । . पूया उक्खित्तं ति य, पट्टगमत्तं च एगट्ठा ।। वृ-सागारिकस्यैव यः ‘सम्बन्धी' पितृव्य-मातुलादिर्यो वा तस्य स्वामी प्रभुः 'गुरुर्वा कलाचार्य यस्य वा पापण्डिनो भक्तैः स पूज्य उच्यते तं समुद्दिश्य कृतं पूज्यभक्तमुच्यते । “तत्त्व-भेदपर्यायैव्यार्खया" इति वचनादेकार्थिकान्याह-पूज्यभक्तम् उक्षिप्तभक्तं पट्टकभक्तम्, एतान्येकार्थानि पदानि ।। [भा.३६५६] चेइयकडमेगट्ट, पाहुडिय पहेणगं च एगट्ठा । उवगरणं वत्थादी, जाव विभागो व जोग्गं वा ।। वृ-चेतितं कृतं चेत्येकार्थम् ! प्राभृतिका प्रहेणकमिति च एकार्थे । उपकरणं वस्त्रादिकम् । वस्त्रं चेह क्षौमिकं गृह्यते, तच्च परिधानं पावरणं वा पूज्यानांदातव्यम्, आदिग्रहणात् पाषण्डिनः प्रतिग्रहो वा कम्बलं वा एकादशप्रतिमा प्रतिपित्सोर्वा रजोहरणं दातव्यम्, एवमादिको यावान् विभागोऽत्र घटते यद् वा यस्योपकरणं योग्यं तद् वक्तव्यम् । [भा.३६५७] निद्रिय कडं च उक्कोसकं च दिन्नं तु जाणसु निसटुं । . भुत्तुवरियं पडिहारियं तु इयरं पुनो चत्तं ॥ -निष्ठितं कृतमित्येकोऽर्थः । यद्वा यद् उत्कृष्टं वस्त्रादितद् निष्ठां प्राप्तमिति कृत्वा निष्ठितमुच्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy