________________
३४०
बृहत्कल्प-छेदसूत्रम् -२-२/७४ वृ- यन्त्रमपि सागारिकस्यान्यैः सह साधारणं स्यात् । तच्च द्विधा इक्षुयन्त्रं तिलयन्त्रं च । तत्रेक्षुयन्त्रे कोल्हुकाख्ये रसो गुडो वा भवेत् । तिलयन्त्रं तु चक्रमुच्यते, तत्र तैलं तिलाSतसीसर्पपादीनां भवेत् । 'तेषु वा' रसादिषु विक्रीयमाणेषु यत् तु' तन्दुल-घृतवस्त्रादिकमापतितम्, अथवा यन्त्रस्य प्रवर्तने- प्रथमप्रारम्भे 'अन्ते वा' परिसमाप्तौ यत् ते सम्भूय 'प्रकृतं ' प्रकरणं कुर्वन्ति, एषा यन्त्रविषया अंशिका ॥ अथ भोज्य-क्षीरद्वारे व्याख्यानयति[भा. ३६४९] गण-गोट्ठिमादि भोज्जा, भुत्तुव्वरियं व तत्थ जं किंचि । भाउगमादीन पओ, अविभत्तं जं व गोवेणं ॥
वृ-गणः- मल्लादिगणरूपः गोष्ठी - महत्तरादिपुरुषपञ्चकरिगृहीता तयोः, आदिशब्दादन्यस्यापि महाजनस्य साधारणानि यानि भोज्यानि समयः यद् वा किञ्चिद् मोदकचूरिप्रभृतिकं तत्र मुक्तोद्वरितं द्रव्यम्, एषा भोज्यविषया सागारिकांशिका । तथा सागारिकसम्बन्धिनां भ्रातृभ्रातृव्यादीनां 'पयः' दुग्धं यावदद्यापि सागारिकेण सहाविभक्तम्, यद् वा दुग्धं वृत्तिच्छिन्नं सागारिकदुग्धमध्यादद्यापि गोपेनाविभक्तम्, एषा क्षीरविषया सागारिकांशिका |
मालाकारद्वारमाह
[ भा. ३६५० ] पुप्फपणिण आरामिगाण पडियं न जाव उ विरिक्कं । पक्खेवगादि समुहं, अचियत्तादी य पुव्वुत्ता ॥
वृ- पुष्पाणां पणितेन विक्रयेण यद् 'आरामिकाणां' मालिकानां घृतादिकं पतितं तद् आरामस्वामिना सागारिकेण यावदद्यापि न 'विरक्तं' विभक्तं तावदेषाऽपि सागारिकांशिका । अथ च क्षेत्रादिषु मालाकारान्तेषु द्वारेषु यदि सागारिकस्य सम्मुख पश्यतस्तदीयायामशिकायामविभक्तायां साधवो भक्तादिकं गृह्णन्ति तदा भद्रककृताः प्रक्षेपकादयः प्रान्तकृताः पुनरप्रीतिकादयः पूर्वोक्ता दोषा मन्तव्याः || मालाकारद्वारं प्रकारान्तरेणाह
[भा. ३६५१] अहवा वि मालकारस्स अंसियं अवनयंति भुजेसु । सोय सगारो तेसिं, तं पि न इच्छंति अविभत्तं ।।
वृ- अथवा मालाकारस्य पुष्पावचयनादिनिर्विष्टामंशिकां 'भोज्येषु' शालि दाल्यादिषु यावत् तस्य आभाव्यं तावन्मात्रामगारिणः प्रागेवापयन्ति, स च मालाकारः ‘तेषां' साधूनां सागारिकः, अतो यावदसौ मालाकारांशिका अविभक्ता तावत् तामपि ग्रहीतुं नेच्छन्ति ॥ द्वितीयपदमाह[ भा. ३६५२] गेलन्नमाईसु उ कारणेसू, माऽदिप्पसंगौ न य सव्वे गीता । गिण्हति पुंजा अविरेडियातो, तस्सऽन्नतो वा वि विरेडियाओ ||
वृ- ग्लानत्वा ऽवमौदर्यादिषु कारणेषु संस्तरणाभावे 'मा प्रथमत एव शय्यातरपिण्डग्रहणेऽतिप्रसङ्गो भवतु' इति कृत्वा, न च ते सर्वेऽपि गीतार्था अतः प्रथमम् 'अविरिक्ताद्' अन्यैः समं साधारणात् पुञ्जात्, ततः 'अन्यस्मादपि' विरिक्तात् 'तस्य' सागारिकस्य सत्कात् पुञ्जाद् गृह्णन्ति ॥
मू. (७५) सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडियाए, सागारियरस उवगरणजाए निट्ठिए निसट्टे पाडिहारिए, तं सागारिओ देइ सागारियस्स परिजणो देइ, तम्हा दावए नो से कप्पइ पडिगाहित्तए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org