SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-२/७९ तदाऽपि मासलघु ।। इदमेव भावयति[भा.३६६६] अमितरं व बाहिं, बाहिं अभितरं करेमाणे । परिभोगविवच्चासे, आवजइ मासियं लहुअं॥ -अभ्यन्तरपरिभोग्य-सौत्रिकंकल्पं बहि कुर्वन् प्रावृण्वन् बहिपरिभोग्यं वा-और्णिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासंकरोति, तत्र चापद्यतेलघुकम् । यत एवमतः सौत्रिकंकल्पमन्तःप्रावृणुयात्, और्णिकं तु बहि । एष विधिपरिभोग उच्यते । अत्र विधीयमाने गुणानुपदर्शयति[पा.३६६७] छप्पइय-पनगरक्खा, भूसा उज्झायणा य परिहरिया | सीतत्ताणं च कतं, खोम्मिय अभितरे तेने ॥ वृऔर्णिके ह्यन्तः परिभुज्यमाने षट्पदिकाः संसज्येरन्, ताः सौत्रिकमन्तः प्रावृण्वता रक्षिता भवन्ति । और्णिकं चान्तः परिभुज्यमानं मलीमसं भवति, तत्र च पनकः संसज्यते, अतो विधिपरिभोगे पनकस्यापि रक्षा कृता भवति । सौत्रिकेण च बहि प्रावृतेन विभूषा भवेत् । तथावस्त्रमहर्निशमपि परिभुज्यमानं मलक्षम-न मलीमसं भवति, कम्बली तु परिभुज्यमाना मलीमसाजायते, मलीमसतया च दुर्गन्धा, अतो विधिपरिभोगे "उज्झायणा" दुर्गन्धता साऽपि परिहता । सौत्रिककल्पगर्भया च कम्बलिकया प्राव्रियमाणया शीतत्राणं कृतं स्यात् । एतेन कारणकलापेन 'क्षौमिकं' न प्राप्यते ततः किं कर्तव्यम् ? इत्याह[भा.३६६८] कप्पासियस्स असती, वागय पट्टे य कोसियारे य। असती य उन्नयस्सा, वागत कोसेज पट्टे य ।। वृ- कासिकस्वाभावे वल्कजम्, तस्याभावे पट्टवस्त्रम्, तदप्राप्ती कौशिकारवस्त्रमपि ग्रहीतव्यम्।अधौर्णिकंन प्राप्यते तत और्णिकस्य स्थाने प्रथमं वल्कजंततः कौशेयं ततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीयमयमपि ग्रहीतव्यम् ।। अथ प्रावरणे गणनाविधिमाह[भा.३६६९]न उन्नियं पाउरते तु एक, दोन्नी जता खोम्मिय उन्नियं च । दो सुत्ति अंतो बहि उनि तीसु, दुगादि उन्नी वि बहिं परेणं ॥ वृ. और्णिकं कल्पमेकं न प्रावृणुते, अर्थादापन्नं सौत्रिकमेकमपि प्रावृणुयात् । यदा तु द्वौ कल्पौ प्रावृणोति तदा क्षौमिक' सौत्रिकमन्तः द्वितीयं पुनरौर्णिकं बहि प्रावृणुयात् । त्रिषु कल्पेषु प्रावरीतुमिष्टेषु द्वौ सौत्रिकावन्तः एकं त्वौर्णिकं बहि प्रावृणुयात् । अर्थोर्णिकान् द्व्यादीनपि प्रावरीतुमिच्छति ततो द्वित्रिप्रभृतयोऽप्यौर्णिका बहि सौत्रिकात् परतः प्रावरणीयाः ।। अथ वस्त्रग्रहणे विधिमाह[भा.३६७०] पंचण्हं वत्थाणं, परिवाडीगाए होइ गहणं तु । उप्परिवाडी गहणे, पच्छित्ते मग्गणा होइ ।। वृ- ‘पञ्चानां' जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्त्तव्यम् । परिपाटिर्नाम-पूर्व कासिकौर्णिकं च, तदभावे वल्कज-पट्टजादिकमित्यादिरनन्तरोक्तः क्रमः । तामुल्लङ्घय उत्परिपाट्या ग्रहणे प्रायश्चित्तस्य मार्गणा भवति । तद्यथा-जघन्यमुपधिमुत्परिपाट्या गृह्णाति पञ्चरात्रिन्दिवानि, मध्यमे मासलघु, उत्कृष्टे चतुर्लघवः ।। एतदेव भावयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy