SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २, मूलं-७०, [भा. ३६३३] ३३७ महता भरेण वर्तते, 'कर्मणि वा' कृष्यादौ ते 'अन्नाः' अक्षणिकाः सन्ति ततो नीतमपि नामी ग्रहीष्यन्ति । [मा.३६३४] इति भावम्मि नियत्ते, तेहि अदिहस्स कप्पती गहणं । छेत्तादिनिग्गतेसु व, कप्पति गहणं जहिं सुतं ॥ वृ- 'इति' अनन्तरोक्तप्रकारेण भावे निवृत्ते सति येषां समीपे तद् नीयते 'तैः' शय्यातरमानुषैर६ष्टस्य कल्पते ग्रहणम् । यद्वा क्षेत्र-खलाद निर्गतेषु तेषु ग्रहणं कल्पते । एवं यत्र सूत्रमवतरति स एष विषय उक्त इति ॥ मू. (७१) सागारियस्सनीहडिया परेण अपडिग्गाहिता,तम्हा दावए नो से कप्पइ पडिग्गाहित्तए। मू. (७२) सागारियस्स नीहडिया सपरेण पडिग्गाहिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए। वृ-अस्य सम्बन्धः प्रागेवोक्तः । व्याख्याऽपि प्राग्वत् । नवरं सागारिकद्रव्यं यदन्यत्र नीयते सा निर्हतिकेत्युच्यते । सा यस्य समीपेप्रेषिता तेनाप्रतिगृहीता न कल्पते, प्रतिगृहीता तु कल्पते।। अथ भाष्यम्[भा.३६३५]पढम-चउत्था पिंडो, बितिओ ततिओ य होति उ अपिंडो । पुरतो ते वि विवजे, भद्दग-पंतेहि दोसेहिं ।। . कृ-निर्हतिकायामपि द्रव्यतः प्रतिगृहीता नभावत इत्यादयश्चत्वारो भङ्गाः। नवरमत्र प्रथमचतुर्थों भङ्गौ शय्यातरपिण्डः, एकत्र भावतोऽपरत्र तु द्रव्यतो भावतश्च परेणाप्रतिगृहीतत्वात् । द्वितीयस्तृतीयश्च भङ्गो नबवति शय्यातरपिण्डः, परंसागारिकस्य पुरतः 'तावपि द्वितीयतृतीयभङ्गी भद्रक-प्रान्तदोषभयाद् विवर्जयेयुः ।। तत्र भद्रकस्तन्निश्रया प्रक्षेपं कुर्यात्, यस्तु प्रान्तः स इदं ब्रूयात्[भा.३६३६] केनावि अभिप्पाएण दिनमाणं पि नेच्छिउं पुट्विं । अम्हे ओभावंता, पुरओ चिय ने पडिच्छंति ॥ वृ.अमी श्रमणकाः केनाप्यभिप्रायेण पूर्वमस्माभिर्दीयमानमपि 'अनीप्सित्वा' अप्रतिगृह्य साम्प्रतं बहुजनमध्येऽस्मानपभ्राजयन्त इत्थमस्माकमेव पुरत इदमेव द्रव्यं प्रतीच्छन्ति ॥ [भा.३६३७] किं तं न होति अम्हं, खेत्तंतरियं व किं विसमदोसं । सुव्वत्त सोत्तिगादिव, चरेंति जतिणो विडंभेणं ।। वृ-किमेतद् द्रव्यमिदानीमस्माकं सत्कं न भवति?, अथ 'क्षेत्रान्तरमागतम्' इति कृत्वा कल्पते तदप्यसङ्गतम्, यतः क्षेत्रान्तरितं विषं किमदोषं भवति? तदमी सुव्यक्तं श्रोत्रिया इव' धिग्जातीया इवयतयोऽपि सन्तो दम्भेन चरन्ति । किमुक्तं भवति? -धिग्जातीयाः 'अशूद्रात्रिका वयम्' इति कृत्वा शूद्रगृहे न समुद्दिशन्ति परं तन्दुलादीनि गृह्णन्ति; यथा तेषामशूद्रान्नव्रतं दम्भ एवममीषामपि शय्यातरपिण्डपरिहारादिव्रतं दम्भ इव लक्ष्यते ।। अथाहृतिका निर्हतिका वा येषु कारणेषु गृह्यते तान्याह__[भा.३६३८] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे । | 19 22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy