________________
बृहत्कल्प-छेदसूत्रम् - २-२ / ७० विधि-प्रतिषेधरूपं कचिदेकत्रापि सूत्रे शिष्यमतिविकोपनार्थं सूरय इच्छन्ति, यथा “कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने पडिग्गाहित्तए, से वि य विहिभिन्ने नो चेव नं अविहिभिन्ने । " ॥ अपि च[भा. ३५३०] उस्सग्गओ नेव सुतं पमाणं, न वाऽपमाणं कुसला वयंति । अंधो य पंगुं वहते स चावि, कहेति दोण्हं पि हिताय पंथं ॥
वृ- 'उत्सर्गतः' सामान्येन 'श्रुतं' सूत्रं नैव प्रमाणं न वा अप्रमाणम्, किन्तु पूर्वापराविरुद्धवृद्धसम्प्रदायागतेनार्थेन युक्तं प्रमाणम्, अन्यथा पुनरप्रमाणम्, इत्येवं 'कुशलाः' तीर्थकरगणधरा वदन्ति । तथाहि-यथा किल कश्चिदन्धो देशान्तरं गन्तुमनाः स्वयं मार्गमपश्यन् पङ्गु गन्तुमशक्तं चक्षुष्मत्तया स्कन्धे विन्यस्य वहति, 'स चापि' पङ्गु 'द्वयोरपि' आत्मनस्तस्य च 'हिताय' गर्त्ताप्रपाताद्युपद्रवरक्षणाय ‘पन्थानं' मार्गं कथयति । एवमर्थेनाप्रबोधितं सद् अन्धस्थानीयं सूत्रम्, तद् यदा पशुस्थानीयमर्थमात्मन उपरिकृतं बहति तदा सोऽप्यर्थ सूत्रनिश्रया गच्छन् सम्यग्विषयविभागदर्शितया निष्प्रत्यपायं मुक्तिमार्गमुपदिशतीति, अतोऽर्थसव्यपेक्षमेव सूत्रं प्रमाणमिति स्थितम् ॥ अथ "जाणंता वि य केई, सम्मोहं काउ लोभा वा ।" इति पश्चार्द्ध व्याचष्टे[भा. ३३३१] अप्पस्सुया जे अविकोविता वा, ते मोहइत्ता इमिणा सुएण । तेसिं पगासो वि तमंतमेति निसाविहंगेसु व सूरपादा ||
वृ-ये 'अल्पश्रुताः' अधीतस्वल्पसूत्रा ये वा 'अविकोविदाः' अगीतार्थास्तान् अनेन सूत्रेण मोहयित्वा विजानन्तोऽपि लोभबहुलतया सागारिकस्याह्नतिकापिण्डं ग्राहयन्तीति वाक्यशेषः । 'तेषां च' एवं मोहितानां 'प्रकाशः' प्रस्तुतसूत्रस्यार्थ कथ्यमानोऽपि 'तमस्तमायते' प्रबलान्धकारतया परिणमते । यथा 'निशाविहङ्गाः' उलूहाकाद्यास्तेषु सूर्यस्य पादाः - किरणाः प्रकाशरूपा अपि महान्धकारीभवन्ति ।। आह यद्येवं ततः कल्पते सागारिकेणापरिगृहीता आह्वतिका" इति प्रस्तुतसूत्रं कथं नीयते ? अत्रोच्यते
[मा. ३६३२] अहभावविप्परिणए, अद्दिट्ठ सुयं तु तम्मि उ पउत्थे । नीहडियाए पुरओ, संछोभगमादिणो दोसा ।।
वृ- यस्तामाहृतिकां प्रहिणोति नयति वा तस्मिन् यथाभावं स्वयमेव विपरिणते न प्रहेष्यामि न नेष्यामीति वा विपरिणाममापन्ने कल्पते । यद्वा तेन तत्रागच्छता श्रुतम्-यस्य सकाशमहमिदं नयामि स प्रोषितः- ग्रामान्तरं गतः, ततस्तस्मिन् प्रोषिते सति स नेता 'न नयामि' इति विपरिणतः, अत्रान्तरे साधवः समायाताः ततः सागारिकेणाद्दष्टं कल्पते प्रतिग्रहीतुम् अत्र सूत्रनिपातः । तथा वक्ष्यमाणसूत्रे भणिष्यमाणायां निह्वतिकायां सागारिकस्य पुरतो गृह्यमाणायां संछोभकःप्रक्षेपक आदिशब्दाद् निष्काशन- शय्याव्यवच्छेदादयश्च दोषा भवन्ति, अतः सागारिकस्य पुरतः सा न ग्रहीतव्या ॥ अत्र कथं स तत्राहृतिकां नयन् विपरिणमति ? इत्युच्यते
[भा. ३६३३] नीयं पि मे न घेच्छति, धम्मो व जतीण होति देंतस्स । सब्द वा सिं, भंडणकम्मे व अद्दन्ना ॥
वृ- मया तत्र नीतमप्येतद् घृतपूरादिकं स न ग्रहीष्यति, यद्वा यतीनामेवंविधं द्रव्यं ददतो मम धर्मो महान् भवति, अथवा येषां समीपे तद् नीयते तेषां स्वजनमरण-धनहरणादिकं व्यसनं शोककारणमजनिष्ट, 'अभ्युदयो वा' कोऽप्युत्सविशेषस्तेषां वर्त्तते, 'भण्डनं वा' कलहस्तदानीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
३३६