________________
उद्देशक : २, मूलं-७०, [भा. ३६२५]
३३५
[भा.३६२५] कप्पइ अपरिग्गहिया, निक्खेवे चउ दुगं अजाणंता।
जाणंता वि य केई, सम्मोहं काउ लोभा वा ॥ वृ-केचिदाचार्यानिक्षेपचतुष्कस्य-'द्रव्यतः प्रतिगृहीता न भावतः' इत्यादिलक्षणभङ्गचतुष्टयस्य 'द्विकं प्रथम-चतुर्थभङ्गद्वयमाश्चित्येदं सूत्रं प्रवृत्तमित्येवंविधमर्थमजानन्तः, यद्वा जानन्तोऽपि तदर्थं केचिदगीतार्थानां सम्मोहं कृत्वा लोभाद् [वते-कल्पते सागारिकेणापरिगृहीता आहृतिका।।
इदमेव स्पष्टयति[भा.३६२६] जं आइडं होइ परस्स हत्थे, जंनीहडं वा वि परस्स दिन्नं ।
तं सुत्तछंदेण वयंति केई, कपंन चे सुत्तमसुत्तमेवं ।। - यद् ‘आहृतक' प्रहेणकं शय्यातरगृहमानीयमानं परस्य हस्ते भवति, एतेन प्रस्तुतमेव सूत्रं गृहीतम्; यच्च निर्दृतं' सागारिकगृहाद् निष्काशितं परस्य दत्तम्, अनेन च वक्ष्यमाणं सूत्रमुपात्तम्, तदेवंविधं द्रव्य 'सूत्रच्छन्देन' सूत्राभिप्रायेण 'कल्प्यं' कल्पनीयम् 'न' नैव 'चेद्' यदि आचार्य! एवमस्मदुक्तं मन्यसे ततः सूत्रमसूत्रमेव प्राप्नोति, अप्रमाणमित्यर्थः । एवं केचिदाचार्यदेशीया वदन्ति ।। अत्र सूरि प्रतिवचनमाह__ [भा.३६२७]सुत्तं पमाणं जति इच्छितं ते, न सुत्तमत्थं अतिरिच्च जाती ।
अत्यो जहा पस्सति भूतमत्थं, तं सुत्तकारीहिं तहा निबद्धं ।। - यदि 'ते' तव सूत्रं प्रमाणत्वेन 'इष्टम्' अनुमतं तत इदमप्यक्षिणी निमील्य विचारयतु देवानांप्रियः-सूत्रं तावद् 'अर्थ' व्याख्यानमतिरिच्य 'न याति' न प्रवर्तते, नावबुध्यते इत्यर्थः; अत एव 'अर्थ' नियुक्ति-भाष्यादिरूपः 'यथा' येन प्रकारेण 'भूतं सद्भूतम् 'अर्थम्' अभिधेयं पश्यति सूत्रकारिभिरपि' गणधर-स्थविरैः तत् सूत्रम् तथा' तेनैवाभिप्रायेण निबद्धमवसातव्यम्।।
अमुभेवार्थं द्रढयति[भा.३६२८]छाया जहा छायवतो निबद्धा, संपत्थिए जाति ठिते य ठाति।
___अथो तहा गञ्चति पञ्जवेसू, सुत्तं पि अत्थानुचरं तहेव ॥ -'छाया' प्रतीता, सा यथा 'छायावतः पुरुषादेः 'निबद्धा' परतन्ना सती तस्मिन् सम्प्रस्थिते याति, स्थिते च तस्मिन् साऽपि तिष्ठति; तथाऽत्रापि छायावत्पुरुषस्थानीयोऽर्थो येषु 'पर्यायेषु' भङ्गकादिविषयेषु प्रकारेषु गच्छति सूत्रमपि छायास्थानीयं तस्यैवार्थस्यानुचरं सत् 'तथैव' तेषु तेषु पर्यायेषु गच्छति ।। इदमेव स्पष्टतरमाह. [मा.३६२९] जं केणई इच्छइ पज्जवेण, अत्थो न सेसेहि उ पञ्जवेहि ।
विही व सुत्ते तहि वारणा वा , उभयं व इच्छंति विकोवणट्ठा । - 'अर्थ' व्याख्यानविधिर्येन केनचित् पर्यायेण यत् सूत्रं ग्रहीतुमिच्छति न 'शेषः' अपरैः पर्यायैः, तत्र स एव प्रमाणयितव्यो न शेषा इति वाक्यशेषः ।यथेहैव सूत्रे यथाभावेन विपरिणते आनेतरि यदि सागारिको न पश्यति ततः कल्पते प्रतिग्रहीतुं तद् द्रव्यम् । एतेन पर्यायेण अर्थ आहृतिकामिच्छति, न शेषैरविपरिणत-क्षेत्रच्छित्रतादिभि पर्यायैः । एवमर्थेनेप्सितेऽनीप्सिते वा वस्तुनि सूत्रकारः कथं सूत्रं बघ्नीयात् ? इत्याह-विधिर्वा तत्र सूत्रे वक्तव्यः, यथा अत्रैवाऽऽहतिकासूत्रे द्वितीये आलापके; 'वारणा वा प्रतिषेधः, यथेहैव प्रथमे आलापके; 'उभयं वा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org