________________
बृहत्कल्प - छेदसूत्रम् -२-२/६८
३३२
कथम् ? इत्याह
[भा. ३६१३] पुराण सागं च महत्तरं वा, अन्नं व गोहेति तहिं च छोढुं । सागारिओ वा वि विगोवितो जो, स पिंडमन्त्रेसु तु संदधाति ।।
वृ- 'पुराणं' पश्चात्कृतम्, तदप्राप्तौ प्रतिपन्नाणुव्रतं श्रावकम्, तदभावे यस्तत्र महत्तरस्तम्, 'अन्यं वा' प्रमाणभूतं 'तत्र' अन्यपिण्डेषु सागारिकपिण्डं प्रक्षेप्तुं 'ग्राहयन्ति' प्रज्ञापयन्तीत्यर्थः । यो वा सागारिकः 'विकोविदः' विशेषेण साधुसामाचारीकुशलः स खकीयं पिण्डमन्येषु पिण्डेषु 'सन्दधाति' मिश्रयतीत्यर्थः ॥
[भा. ३६१४] सम्मिस्सियं वा वि अमिस्सियं वा, गिण्हंति गीता इतरेहिं मिस्सं । कारेंतऽदिट्टं चेऽविगोवितेस, दिडुं च तप्पच्चयकारि गीता ||
वृ- यदि सर्वेऽपि गीतार्थास्ततः सम्मिश्रितं वा अमिश्रितं वा सागारिकपिण्डं गृह्णन्ति । अथ 'इतरैः' अगीतार्थैर्युक्तास्ततः 'मिश्रं' संसृष्टं गृह्णन्ति नासंसृष्टम् । अथासंसृष्टं (अथ संसृष्टं) न प्राप्यते अविकोविदाश्च-अगीतार्थास्तत्र सन्ति ततः 'अदृष्टं' यथा ते न पश्यन्ति तथा पुराणादिना संसृष्टं कारयन्ति । अथाध्टे कार्यमाणे तेषामप्रत्यय उत्पद्यते, यथा- एतैः सागारिकपिण्ड एवासंसृष्टं आनीतः; ततस्तत्प्रत्ययकारिणो गीतार्थास्तैर्दृष्टमपि संसृष्टं कारयन्ति ॥
अथ "पभुनिक्खतस्स वा करणं" इति पदं व्याख्यानयति
[भा. ३६१५ ] जो उज्जिओ आसी पभू व पुव्वं, तप्पक्खिओ राय - गणचिओ वा । सवीरिओ पक्खिवती इमं तु, वोत्तूण किं अच्छइ एस वीसुं ॥
वृ- यस्तत्र ग्रामे पूर्वम् 'ऊर्जितः' बलवान् 'प्रभुर्वा' अधिपतिरासीत्, 'तत्पाक्षिको वा' तस्य ग्रामस्य हितैषी 'राज- गणाञ्चितो वा' राजसम्मतो मल्लादिगणसम्मतो वा आसीत्, एवंविधोऽपि यः 'सवीर्य' शक्तिमान्, भाजनभेदादयो दोषा यस्य न भवन्तीति भावः; सः 'एनं' सागारिकपिण्डमन्यपिण्डेषु प्रक्षिपति, परमिदं वचनमुक्त्वा, यथा-किमेषः 'विष्वक् पृथक् तिष्ठतीति ॥
पू. (६९) सागारियस्स आहडिया सागारिएण पडिग्गाहिया, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ।
मू. (७०) सागारियस्स आहडिया सागारिएण अप्पडिग्गाहिया, तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए ।
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[भा. ३६१६] नीहडसागारिपिंडस्स विवक्खो आहडो अह उ जोगो । नीडसुते पुनरवि, जोगो संदट्ठओ नाम ॥
वृ- पूर्वसूत्रे निर्हतः सागारिकपिण्ड उक्तः, इह तु तद्विपक्ष आहत उच्यते । 'अथ' एष प्रस्तुतसूत्रस्य ‘योगः' सम्बन्धः । तथा इतः सूत्रादनन्तरं पुनरपि निर्हतसूत्रं भविष्यति ततोऽयं सूत्रत्रयस्य 'योगः' सम्बन्धः सन्दष्टको नाम मन्तव्यः । किमुक्तं भवति ? - आदौ निर्हतसूत्रम्, मध्ये आहतसूत्रम्, अवसाने तु भूयोऽपि निर्हृतसूत्रम् ; एष ईशः सम्बन्धः सध्शपूर्वापरसूत्रद्वयेन सन्दंशकेनेव गृहीतत्वात् सन्दष्टक इत्यभिधीयते । अनेन वक्ष्यमाणसूत्रस्याप्यत्रैव सम्बन्धोऽभिहित इति ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'आहृतिका' प्रहेणकं सा सागारिकस्य गृहे कुतोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org