________________
३३३
उद्देशक ः २, मूलं-७०, [भा. ३६१६] गृहान्तरादागता, साच सागारिकेण 'प्रतिगृहीता' स्वीकृता, 'ततः' तस्या मध्याद् दद्याद्नो "से" तस्य साधोः कल्पते प्रतिग्रहीतुम् । सागारिकस्याहृतिका सागारिकेण अप्रतिगृहीता' न स्वीकृता तस्या मध्याद् दद्यादेवं "से" तस्य साधोः कल्पते प्रतिग्रहीतुमिति सूत्रस पार्थः ।।
साम्प्रतं नियुक्तिविस्तरः[मा.३६१७] आहडिया उ अभिधरा, कुलपुत्तरा भगिनि मट्टिगालित्ते ।
दब्वे खेते काले, भावम्मिय होइ आहडिया ।। -अभिशब्दोऽत्र पृथगर्थवाचकः । ततश्च ‘अभिगृहाद्' अपरस्माद् वेश्मनो यद् विशिष्टं स्वाधकद्रव्यमागतं सा आहृतिका भण्यते । सा चैवं सम्भवति-कश्चिद् कुलपुत्रकः कचिद् ग्रामे परिवसति, तस्य चान्यदा प्राधूर्णकः समायातः तदर्थं विविधमतिशायि द्रव्यमुपस्कृतम्, कुलपुत्रस्य च भगिनी तत्रैव ग्रामे परिणीता तदर्थ स्वकीयभार्याहस्ते धृतपूरादिकं प्रेषयति, सा च भगिनी तदानीं मृत्तिकालिप्तहस्ता ततस्तां ग्रातृजायां ब्रवीति-स्थापय त्वमिदममुकत्र प्रदेशे, अहमिदानीमक्षणिका तिष्ठमीति। सा चाहृतिका चेति ।। अथैनाभेव नियुक्तिगाथां विवरीषुराह[भा.३६१८] आएसट्ट विसेस, सति काले भगिनि संभरित्ताणं। .
भजिं भज्जाहत्थे, कुलओ पेसेति भगिनीए ।। वृ-आदेशः-प्राधूर्णकस्तदर्शधृतपूर-लपनश्रीप्रभृतेः स्वाद्यकद्रव्यस्य विशेषे सज्जाते सति 'काले भोजनदेशकाले भगिनी संस्मृत्य भार्याहस्ते 'मर्जिका प्रहेणकं कुलजः' कुलपुत्रको भगिनीनिमित्तं प्रेषयति एषा आहृतिकोच्यते । अस्यां च चत्वारो भङ्गाः, तद्यथा-द्रव्यतः प्रतिगृहीता न भावतः १ भावतः प्रतिगृहीता न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता ३ नापिद्रव्यतो नापि भावतः प्रतिगृहीता ४ ।। एषां यथाक्रमं भावनामाह[भा.३६१९] उच्छंगे अनिच्छाए, ठविया दब्बगहिया न पुन भावे ।
एत्थ पुन भद्द-पंता, अचियत्तं चेव घेप्पंते॥ कृ-यदर्थंसा भर्जिका प्रेषिता सा भगिनी तंभ्रातरं प्रति केनापि कारणेन रुष्टा सती भ्रातृजायया समर्प्यमाणामपि तां न गृह्णति, ततस्तया ननान्दुरुत्सङ्गेऽनिच्छयाऽपि सा भर्जिका स्थापिता, एषा द्रव्यतः प्रतिगृहीता न पुनर्भावतः । इयं च शय्यातरपिण्डो न भवति, भावतोऽगृहीतत्वात् । परमत्र पुनर्भद्रक-प्रान्तदोषा भवन्ति, भद्रकस्तन्निश्रया प्रक्षेपं प्रान्तस्तु निष्काशनवसतिव्यवच्छेदादिकं कुर्यादिति भावः । अप्रीतिकं चैवं गृह्णमाणे भवति-किमेष मदीयः पिण्डो न भवति येनैवममी इदं गृह्णन्ति ? ॥ [भा.३६२०] वावार मट्टिया-असुइलित्तहत्था उ बिइयओ भंगो।
दोसु वि गहिए तइओ, चउत्थभंगे उ पडिसेहो । वृ-तथा सा भगिनी यदा कमपि दलन-पेषणादिव्यापारं कुर्वाणा मृत्तिकया वा अशुच्या वा लिप्तहस्ता भवति तदा ब्रवीति-स्थापय त्वममुकत्र प्रदेशे, एषा भावतः प्रतिगृहीता न द्रव्यत इति द्वितीयो भङ्गः 'द्वाभ्यामपि' द्रव्य भावाभ्यां प्रतिगृहीता । चतुर्थभङ्गे 'द्वाभ्यामपि' द्रव्य-भावाभ्यां प्रतिषेधः । किमुक्तं भवति? -सा भगिनी रुष्टा सती बलादर्प्यमाणामपितां भर्जिकां हस्ताभ्यामपि . न स्पृशतीति । सा चाहृतिका द्रव्य क्षेत्र-काल-भावभेदात् चतुर्विधा । पुनरेकैका द्विविधा-छिन्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org