________________
उद्देशकः २, मूलं-६८, [भा. ३६०८]
३३१ [भा.३६०८] कारावणमन्नेहि, अनुमोदन उम्हमादिणो दोसा ।
दुविहे वतिक्कम्मिं, पायच्छित्तं भवे तिविहं ।। अन्यैः कारापणे कुर्वतो वाअनुमोदने उष्मादयो दोषा भवन्ति । उष्मा नाम-तेनात्युष्णद्रव्येण तस्य अगारिणो हस्तादौ परितापः, आदिशब्दाद् यदीयं द्रव्यमसौ तत्र प्रक्षिपति स तेन सहासङ्घडं कुर्यात्-कस्मान्मदीयं स्पृशसि? इति । एवमादयो दोषाः । अत्रच 'द्विविधे व्यतिक्रमे' लौकिकलोकोत्तरिकमर्यादातिक्रमरुपे प्रायश्चित्तं त्रिविधं भवति । तत्रैकं स्वयं करणे, द्वितीयं कारापणे, तृतीयमनुमताविति ।। इदमेवोत्तरार्द्ध व्याचष्टे[भा.३६०९] लोउत्तरं च मेरं, अतिचरई लोइयं च मेलंतो।
अहवा सयं परेहि य, दुविहो तुवतिक्कमो होति ।। दृ-सागारिकचोल्लकमितरेषां चोल्लकैः समं मीलयन् ‘लोकोत्तरिकी मर्यादां' "न कल्पते सागारिकपिण्डोऽसंसृष्टः संसृष्टः कर्तुम्" इति भगवदाज्ञालक्षणां 'लौकिकी च' 'न मीलनीया अस्माकं चोल्लकाः' इत्येवंरुपां मर्यादाम् ‘अतिचरति' अतिक्रामतीत्यर्थः । अथवा स्वयं करणं परैश्च क्रियमाणस्य खादनमित्येवं द्विविधो व्यतिक्रमो भवति । [भा.३६१०] पठमिल्लुगम्मि ठाणे, दोहि वि गुरुगा तवेण कालेण ।
बितियम्मि य तवगुरुगा, कालगुरु होति ततियम्मि ।। वृ-तत्र 'प्रथमस्थाने' स्वयंकरणलक्षणे चत्वारो गुरवो द्वामभ्यामपि गुरुकाः, तद्यथा-तपसा कालेन च । 'द्वितीय कारापणे त एव चत्वारो गुरवस्तपोगुरुकाः । 'तृतीये' अनुमोदनालक्षणे स्थाने त एव चतुर्गुरुकाः कालगुरवो भवन्ति ।। किञ्च[भा.३६११] अम्हनयं छूढमिणं किमट्ठा, तं केन उत्ते कहिते जतीहिं। .
ते चेव तोयादि पवत्तणा य, असिट्ट तेने व असंखडादी ।। वृ.अस्मदीयं तदिदं किमर्थ केनान्यत्र प्रक्षिप्तम् ?, इत्थं समडिकरिभि साक्षेपमुक्ते रक्षपालो ब्रवीती-यतिभिरिदमेकत्र मीलितम् । एवं कथिते सति त एव तोयादयः' उदकस्पर्शन-भण्डनादयो दोषाः । अथ ते भद्रकास्ततः 'साधुहस्तेन पवित्रीभूतमिदम्' इति मत्वा प्रवर्तनं कुर्यु । अथासौ रक्षपालो न कथयति ततः ‘अशिष्टे' अकथिते तेनैव रक्षपालेन सममसङ्खडं कुर्यु, आदिशब्दाद् वधं वा बन्धं वा ते तस्य कुर्वन्ति । यत एते दोषा अतो नासंसृष्टं संसृष्टं कर्तव्यं कारयितव्यं क्रियमाणमनुमोदयितव्यं चेति ॥ अथ द्वितीयपदमाह[भा.३६१२] अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि ।
अनुमोदण कारावण, पभुनिखंतस्स वा करणं ।। वृ-अध्वनो निर्गता आदिशब्दाद् अशिवादिविनिर्गता अध्वनि वा प्रविशन्तोऽथवाऽवमौदर्ये वर्तमानाः संसृष्टं पिण्डं कुर्वन्तः प्रथममनुमोदनं ततः कारापणमपि प्रतिसेवन्ते । यो वो प्रभुःबलवान् राज-गणसम्मतो वा निष्कान्तः-प्रतिपन्नदीक्षस्तस्य स्वयमपि करणं भवतीति सङ्ग्रहगाथासमासार्थः । अथ विस्तरार्थोऽभिधीयते-ते साधवो विप्रकृष्टादध्वनो निर्गतास्तं वा प्रविशन्तोऽक्मौदर्ये वा अन्यत्र पर्याप्तमलभमानास्तत् सागारिकसत्कं द्रव्यं स्त्रिग्धं शरीरोपष्टम्भकं मत्वा प्रथमं तावदन्यं संसृष्टं कुर्वन्तमनुमोदयन्ति । अथान्यः संसृष्टं कुर्वत्र प्राप्यते ततः कारयेयुरपि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org