________________
३२८
बृहत्कल्प-छेदसूत्रम् -२-२/६५
[भा.३५९४]अलऽम्ह पिंडेण इमेण अजो !, मुजो न आनेति जहेस इत्थं ।
साहू न इच्छंति इमस्स दोसा, अम्हे वि वजेमुन को वि एस ॥ वृ-अथ भूयो यथैष सागारिकोऽत्र पिण्डं नानयतीत्येवमर्थं साधवो गृहस्थान् ब्रुवते-आर्या! अलमस्माकमनेन संसृष्टपिण्डेनेति । ततस्तेऽगारिणश्चिन्तयेयुः-अस्य सागारिकस्य दोषाद् यदि साधवोऽमुं पिण्डं नेच्छन्ति ततो वयमपि दान-ग्रहणादिव्यवहारमनेन सह वर्जयामः, यतो न कोऽप्येष विशेषतो ज्ञायते, आगन्तुकत्वात् ।। [भा.३५९५]अगम्मगामी किलिबो।ऽहाऽयं, बोट्टी व हुज्जा से सुणादिणा वा।
दोसा बहू तेन जहिं सगारो, पिंडं नए तत्थ उ नाभिगच्छे ॥ कृ-अथवाऽयमगम्यगामी 'क्लीबो वा' नपुंसकः किल भविष्यति, 'बोट्टी वा' विट्टालना "से" तस्य शय्यातरपिण्डस्य शुनकादिना कृता भवेत् । एवमादयो बहवो दोषा यतो भवन्ति तेन यत्र सङ्खडीकरणे सागारिकः स्वकीयं पिण्डं नयति तत्र प्रथमत एव नैवाभिगच्छेत् ।।
मू. (६६) नो कप्पइ निग्गंधाण वा निग्गंधीण वा सागारयपिंडं बहिया नीहडं असंसट्ठ पडिग्गाहित्तए।
म. (६७) कप्पइनिग्गंथाण वा निगंथीण वा सागारियपिंडं बहिया नीहडं संसर्ट पडिग्गाहित्तए।। वृ-अस्य व्याख्या प्राग्वत् । नवरं सागारिकपिण्डो वाटका बहिर्निष्क्रामितोऽपि 'असंसृष्टः' अन्यपिण्डैः समममीलितो न कल्पते, संसृष्टस्तु कल्पते इति ।। अथ भाष्यम्[भा.३५९६] बहिया उ असंसट्टे, दोसा ते चेव मोत्तु संसहूं ।
संसहमणुनायं, पेच्छउ सागारितो मा वा ।। वृ- सागारिकवाटकाद् बहिर्निष्कामिते असंसृष्टे गृह्यमाणे 'त एव' पूर्वसूत्रोक्ता भद्रकप्रान्तदोषाः, परं मुक्त्वा संसृष्टम्, तत्र दोषा न भवन्तीति भावः । अत एव यद् वाटकाद् बहिर्निष्क्रामितं संसृष्टं तदत्र सूत्रेऽनुज्ञातम्, सागारिकः पश्यतु वा मा वा । इदं पुरस्ताद् व्यक्तीकरिष्यते ॥ [भा.३५९७] नीसट्टमसंसट्टो, वि अपिंडो किमु परेहिं संसहो ।
____ अप्पत्तियपरिहारी, सगारदिटुं परिहरंति ॥ वृ- निसृष्टो नाम-बहिर्निष्काश्य वानमन्तरस्य निवेदितः, यस्य वा याचकादेराय निष्काशितस्तस्मै प्रदत्तः, स यद्यप्यन्यैश्चोल्लकैरसंसृष्टस्तथापि 'अपिण्डः' न सागारिकपिण्डः, किं पुनः 'परैः' अन्यैश्चोल्लकैः समं संसृष्टः ? स सुतरां सागारिकपिण्डो न भवतीत्यर्थः, परमप्रीतिकपरिहारिणः सन्तः सागारिकदृष्टं तमपि परिहरन्ति ॥ इदमेव सापवादमाह[भा.३५९८] अद्दिट्ठस्स उ गहणं, असती तव्वजितेन दिट्ठस्स ।
दिट्टे व पत्थियाणं, गहणं अंतो व बाहिं वा ॥ वृ-प्रथमं सागारिकेण सकुटुम्बेनाद्दष्टस्य, ततः “असई"त्ति संस्तरणाभावे 'तद्विर्जितेन' तमेकं सागारिकं वर्जयित्वा शेषकुटुम्बेन द्दष्टस्य संसृष्टपिण्डस्य ग्रहणमनुज्ञातम् । अथ ते साधवो नामान्तरं प्रस्थिताः ततः सागारिकेणापि द्दष्टस्य संसृष्टस्य वा असंसृष्टस्य वा वाटकस्यान्तर्वा बहिर्वा सर्वत्र ग्रहणमनुज्ञातम्, पुनर्ग्रहणाभावेन भद्रक-प्रान्तदोषाणामभावात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org