________________
उद्देशक : २, मूलं-६५, [भा. ३५८८]
३२७
अंतोघरे न इच्छह, इह गहणं दुट्ठधम्मो त्ति ॥ वृ-यः सागारिको भद्रकः सः तन्निश्रया' वानमन्तरनिवेदनाव्याजेनान्यदप्यात्मीयमाहारजातं तत्र प्रक्षिपेत् । यस्तु प्रान्तः स तथा गृह्यमाणं दृष्ट्वा भणति-अन्तर्गृहे' गृहाभ्यन्तरे दीयमानं मदीयं पिण्डं नेच्छथ, इह पुनरेवं दीयमानस्य ग्रहणं कुरुथ, अहो ! दुष्टधर्माणो यूयमिति ।। तथैतद्दोषभयान्न गृह्णन्ति ततः किं भवति ? इत्याह[भा.३५८९] तेसु अगिण्हतेसु य, तीसे परिसाए एवमुप्पज्जे ।
को जाणइ किं एते, साहू घेत्तुं न इच्छंति ॥ वृ-'तेषु' साधुषु तं शय्यातरसत्कं निवेदनापिण्डमगृह्णानेषु तस्याः' सङ्घडिकारिण्याः पर्षद एवं चिन्ता समुत्पद्यते, यथा-'को जानाति' को नामामुमर्थं सम्यग् वेत्ति किम् ‘एते' साधव इदं शय्यातरसत्कमाहारजातं ग्रहीतुं नेच्छन्ति ? ॥ [भा.३५९०]नूनं से जाणंति कुलंव गोत्तं, आगंतुओ सो य तहिं सगारो।
भूणग्घऽसोय व ततो चएवि, जं अम्ह इच्छंति न सेञ्जदातुं ।। वृ- नूनं “से' तस्य शय्यास्वामिनो जानन्त्यमी कुलं वा गोत्रं वा, यथाऽयं नीचकुलोत्पन्नो हीनगोत्रो वेति । स च सागारिकः 'तत्र' ग्रामादावागन्तुकः अतो न तदीयं कुलादि तत्र कोऽपि वेत्ति । यद्वा ते गृहस्थाश्चिन्तयेयुः-'भ्रूणघ्नः' बालमारकोऽयं शौचं वा-शुचिसमाचारतारूपमस्य नास्ति, तत एतदीयं पिण्डं त्यक्त्वा यदमी अस्माकं चोल्लकं ग्रहीतुमिच्छन्ति, न शय्यादातुः सम्बन्धिनम् ।। ततः सागारिक इत्थं चिन्तयेत्[भा.३५९१]ओभामिओ नेहि सवासमझे, चंडालभूतो य कतो इमेहिं ।
गेहे वि निच्छंति असाधुधम्मा, अतो परं किं व करेज्ज अन्नं ॥ वृ- अपभ्राजितोऽहम् ‘अमीभि' श्रमणकैः ‘स्ववासमध्ये' स्वकीयसहवासिजनमध्ये, चाण्डालभूतश्च कृतोऽहममीभिर्मुण्डेः, गेहेऽपि च मदीये नेच्छन्त्यमी असाधुधर्माणः पिण्डंग्रहीतुम्, अतः परं किं वा मम ‘अन्यद्' अपरं कुर्यु? यत् कर्तुं योग्यं तदमीभि कृतमिति भावः । ततश्च[भा.३५९२] राओ दियावा वि हु नेच्छुभेजा, एगस्सऽणेगाण व सेज्जछेदं ।
अद्धाण निंता व अलंभे जंतू, पावेज्जतं वा वि अगिण्हमाणा ।। वृ-रात्रौ वा दिवा वा साधून्प्रतिश्रया निष्काशयेत् । 'एकस्य वा तस्यैव गच्छस्य अनेकेषां वा' बहूनां गच्छानां शय्यादानव्यवच्छेदं कुर्यात् । ततोऽध्वनि वहमाना निर्गच्छन्तोवा साधवस्तदीयदोषेण वसतिमलभमाना यत्परितापनादिकं प्राप्नुयुः तत् तेशय्यातरचोल्लकमगृह्णानाः प्राप्नुवन्ति, तन्निष्पन्नं तेषां प्रायश्चित्तमिति भावः ।।
एवमसंसृष्टपिण्डविषया दोषा उक्ताः । अथ संसृष्टपिण्डविषयानाह[भा.३५९३] संसहस्स उ गहणे, तहियं दोसा इमे पसजंति ।
तनीसाए अभिक्खं, संखडिकारावणं होज्जा ।। वृ-यद्यन्यदीयचोल्लकैः संसृष्टं सागारिक़पिण्डं गृह्णन्ति तदा तत्रैते दोषाः प्रसजन्ति- 'तन्निश्रया' 'यद्यन्यदीयपिण्डसंसृष्टो मदीयः पिण्डो अमीषां कल्पते तत इत्थं कृत्वा भूयो भूयो दापयिष्यामि' इत्यालम्बनेन वाटकवास्तव्यजनैरभीक्ष्णं सङ्खडीकारापणं भवेत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org