SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ उद्देश : २, मूलं- ६७, [ भा. ३५९९ / [भा. ३५९९ ] पाहुणगा वा बाहिं, घेत्तुमसंसट्टगं च वच्च॑ति । अंतो वा उभयं पी, तत्थ पसंगादओ नत्थि ।। ३२९ वृ- अथवा प्राघुणकाः साधवः केचित् तत्र समायाताः, ते च तं ग्रामं व्यतीत्याग्रतो गन्तुकामाः वाटकाद् बहिर्निष्क्रामितं निसृष्टमनिसृष्टमपि गृहीत्वा समुद्दिश्य च व्रजन्ति । तदभावे 'अन्तः' वाटकाभ्यन्तरे वर्त्तमानमुभयमपि प्राघुणकाः साधवो गृह्णन्ति, प्रथमं संसृष्टं तदप्राप्तावसंसृष्टमपीत्यर्थः । कुतः ? इत्याह- 'तत्र' एवंविधे प्राघुणकानां ग्रहणे प्रसङ्गादयो दोषाः भद्रक-प्रान्तकृताः पुनर्ग्रहणाभावान्न सन्ति । प्रसङ्गो नाम तन्निश्रया भूयः सङ्घडीकारापणम्, आदिशब्दाद् निष्कासनादिपरिग्रहः || अथ "संसङमणुन्नायं" इत्यादिपदानां भावार्थं गाथात्रयेणाह[ भा. ३६०० ] जो उ महाजनपिंडेन मेलितो बाहि सागरियपिंडो । तस्स तहिं अपभुत्ता, न होति दिट्ठे वि अचियत्तं ।। वृ- यस्तु सागारिकपिण्डो महाजनपिण्डेन सह वाटकाद् बहिर्मीलितः स साधूनां कल्पते । कुतः ? इत्याह- 'तस्य' सागारिकस्य तत्राप्रभुत्वाद् महाजनस्यैव च प्रभुत्वाद् दृष्टेऽपि सागारिकस्य नाप्रीतिकं भवति ॥ [मा. ३६०१] जंपुन तेसिं चिय भायणेसु अविमिस्सियं भवे दव्वं । तं दिस्समाण गहियं, करेज्ज अप्पत्तियं प्रभुणो ॥ वृ- यत् पुनर्द्रव्यं 'तेषामेव' शय्यातरमानुषाणां भाजनेषु 'अविमिश्रितम्' असंसृष्टं भवति तद् दृश्यमानं गृहीतं सत् ‘प्रभोः' शय्यातरस्याप्रीतिकं कुर्याद् अतो न ग्राह्यम् ॥ [ भा. ३६०२] जं पुन तेन अदिट्ठे, दुधाण गहणं तु होत संसट्टे । तहियं तानि कधिज्जा, न यावि न य आयरा तत्थ ॥ वृ- यत् पुनः 'तेन' सागारिकेणाध्ष्टस्यासंसृष्टस्यापि "दुघाणे" दुर्भिक्षे संस्तरणाभावाद् ग्रहणं क्रियते तत्र 'तानि' शय्यातरमानुषाणि गत्वा शय्यातरस्य कथयेयुर्न वा; कथितेऽपि 'न च' नैव 'तत्र' दुर्भिक्षे शय्यात्तरस्य तथाविध आदशे भवति, येन भूयः सङ्घडी कुर्यादिति भावः ।। मू. (६८) खलु निग्गंधो वा निग्गंथी वा सागारियपिंडं बहिया नीहडं असंसठ्ठे संसद्वं करेइ, करेंतं वा साइजइ, से दुहओ वीइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं ॥ वृ यः खलु निर्ग्रन्थो निर्ग्रन्थी वा सागारिकपिण्डं बहिर्निर्गतमसंसृष्टं संसृष्टं करोति, कुर्वन्तं वा 'खादयति' कारयति कुर्वन्तमनुमन्यते वेत्यर्थः, सः 'द्विधा' लौकिक-लोकोत्तरिकभेदाद् द्विप्रकारां मर्यादां व्यतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम्, चतुरो गुरुमासानित्यर्थः । एष सूत्रसङ्क्षेपार्थः ।। अथ भाष्यविस्तरः [भा. ३६०३] संसट्टस्स उ करणे, चउरो मासा हवंतऽनुग्धाता । आणादिणो य दोसा, विराधना संजमा - SSदाए || वृ- असंसृष्टमस्माकं ग्रहीतुं न कल्पते इति कृत्वा यदि संसृष्टं करोति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात् कारयति वा कुर्वन्तमनुमोदयति वा ततश्चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवति, आज्ञादयश्च दोषाः, विराधना च संयमा - ऽऽत्मविषया ।। [भा. ३६०४] सयमेव उकरणग्मी, उदगप्फुस भंडणुण्हवण पंते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy