________________
३२२
बृहत्कल्प-छेदसूत्रम् -२-२/६३ प्रभुः सा अनुज्ञापयितव्या ॥ पिण्डग्रहणे विधिमाह[भा.३५६५] असहीणे पभुपिंडं, वजंती सेसए तु भद्दादी।
साहीणे जहि भुंजइ, सेसे वि उ भद्द-पंतेहिं ॥ -अस्वाधीने गृहस्वामिनि या तत्पनी प्रभुस्तस्याः पिण्डं साधवो वर्जयन्ति।शेषसपलीगृहेषु शय्यातरपिण्डः परं भद्रक-प्रान्तकृता दोषा भवन्ति अतस्तासामपि पिण्डः परिहर्तव्यः । अथ स्वाधीनः शय्यातरः ततो यस्या गृहे भुङ्क्ते तत्र शय्यातरपिण्ड इति कृत्वा वर्जयन्ति। शेषाण्यपि सपत्नीगृहाणि भद्रक-प्रान्तदोषपरिहारार्थ वर्जयन्ति॥ [भा.३५६६] एगरथ रंधणे मुंजणे य वजेति भुत्तसेसं पि।
एमेव वीसु रद्धे, भुंजंति जहिं तु एगत्था ॥ वृ-एकत्र राद्धमेकत्र मुक्तमित्यादिचतुर्भङ्गयां यत्रैकत्र रन्धनं भोजनं वा तत्र भुक्तशेषमपि वर्जयन्ति, प्रथमभङ्गे इत्यर्थः । एवमेव विष्वग् राद्धेऽपि यत्रैकत्र मुअते तत्र भुक्तशेषमपि न गृह्णन्ति, तृतीयभङ्गे इति भावः॥ एवमस्वाधीनभर्तृकाणां विधिरुक्तः। अथ स्वाधीनभर्तृकाणां यो विधिस्तमाह- [भा.३५६७] निययं व अनिययं वा, जहिं तरो मुंजती तु तं वजं ।
- सेसासु वि न य गिण्हति, मा छोभगमादि भद्दाई ॥ वृ-नियतं वा अनियतं वा यत्र शय्यातरो भुड़े तद् गृहं वर्जनीयम् । नियतं नाम-यदेकस्या एव गृहे प्रतिदिनं भुङ्क्ते । अनियतंतु-वारकेण सर्वासामपि गृहे भुङ्क्ते । शेषपलीगृहेषु यद्यपि शय्यातरपिण्डोन भवति तथापि गृह्णाति, मा भद्रक-प्रान्तकृता छोभकादयो दोषा भवेयुः । छोभकःप्रक्षेपकः तं शेषपत्नीगृहे भद्रकः शय्यातरः कुर्यात् 'मम गृहे तावदमी न गृह्णन्ति अंत एवमपि दत्त्वा पुण्यमुपार्जयामि' इति बुध्या । यस्तु प्रान्तः स द्वेषं यायात्- अहो ! दुईष्टधर्माणोऽमी, यदि मदीयगृहे न कल्पते तत एतासां महत्तोपजीविनीनां गृहे कथं कल्पते ? इति; प्रद्विष्टश्च प्रतिश्रयानिष्काशयेत् ॥ गतं सपनीद्वारम् । अथ वणिग्द्वारमाह[भा.३५६८] दोसु वि अव्वोच्छिन्ने, सबं जंतम्मि जं च पाउग्गं ।
- खंधे संखडि अडवी, असती य धरम्मि सो चेव ॥ कृ कोऽपि शय्यातरो देशान्तरं गन्तुकामो नगरादेहि स्थितो वर्तते, तस्य च 'द्वयोरपि गृहयोः' अन्तर्ग्रहाद् बहिहि बहिर्गृहाच्चाभ्यन्तरगृहे भक्तादिकमव्यवच्छिन्नं यद् आनीयते तन्त्र कल्पते। अथासौ शय्यातरस्ततः स्थानात् प्रस्थितः ततः 'याति' गच्छति तस्मिन् ‘सर्वं तद्दिवसनीतमन्यदिवसनीतं च भक्त-पानंन कल्पते। सर्वमित्युक्ते मा भूदतिप्रसङ्ग इत्याशकुयाह-यच 'प्रायोग्य यतिजनयोग्यम्, एषणीयंप्रासुकं चेत्यर्थः, “खंधे"त्ति स्कन्धप्रदेशे मोट्टांकृत्वा बहिमिषु व्यवहरन् शय्यातरः साधूनां दधि-दुग्धादिकं दद्यात्, “संखडि"त्ति सजडी कुर्वन् साधूनामपि दद्यात्, “अडवि"त्ति अटवीं वा काष्ठच्छेदनादिनिमित्तं गृहीतशम्बलो गच्छन् साधून् दृष्ट्वा तन्मध्यात् तेषामपि दद्यात्, एतेषु त्रिष्वपि न कल्पते । “असई य घरम्मि सो चेव" ति यदि शय्यातरः सपुत्र-पशु-बान्धवो गृहे नास्ति किन्तु देशान्तरं प्रोषितः तदा देशान्तरस्थितोऽपि स एव शय्यातरो नान्य इति नियुक्तिगाथासमासार्थः ॥ अथैनामेव विवरीषुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org