________________
३२३
उद्देशक : २, मूलं-६३, [भा. ३५६९] [भा.३५६९] निग्गमगाइ बहि ठिए, अंतो खेत्तस्स वजए सव्वं ।
बाहिं तद्दिननीए, सेसेसु पसंगदोसेण ॥ वृ-शय्यातरो वाणिज्येन देशान्तरं गन्तुकामो निर्गमकः-प्रस्थानं स शुभमुहूर्ते क्रियते इत्यादिकारणेन नगरादेर्बहिर्गत्वा सक्रोशयोजनक्षेत्रस्याभ्यन्तरे बहिर्वा स्थितो भवेत्। यदि 'अन्तः' क्षेत्राभ्यन्तरे स्थितः तदा 'सर्व' तद्दिवासा-ऽन्यदिवसनीतं शय्यातरपिण्ड इति कृत्वा वर्जयेत् । अथासौ क्षेत्रा बहि स्थितस्ततस्तद्दिवप्लनीतं शय्यातरपिण्डः, शेषदिवसनीतं तु यत् परिवासितं यद् वा तत्रैवोपस्कृतं तन्न शय्यातरपिण्डः, परं तदपि 'प्रसङ्गदोषेण’ ‘मा भद्रक-प्रान्तकृतदोषाणां प्रसङ्गो भवेत्' इति कृत्वा न ग्रहीतव्यम् ॥ [भा.३५७०]ठितो जया खेतबहिं सगारो, भत्तादियं तस्स दिने दिने य ।
अच्छिन्नमाणिज्जति निजती य, गिहा तदा होति तहिं वि वजे ॥ वृ-यदा सागारिकः क्षेत्राद् बहि स्थितस्तदा तस्य भक्तादिकमव्यवच्छिन्नं दिने दिने गृहाद् बहिरानीयते बहिस्थानाच्च गृहं नीयते तत् सर्वमपि तत्र स्थितस्य तस्य वर्जयेत् ॥ [भा.३५७१] बाहिं ठिय पठियस्स उ, सयं व संपत्थिया उ गेण्हंति ।
तत्थ उ भद्दगदोसा, न होति न य पंतदोसा उ॥ वृ-शय्यातरः क्षेत्राद् बहि स्थितो यस्यां वेलायामग्रतो गन्तुं प्रस्थितः, स्वयं वा साधवः पूर्णे मासकल्पे सम्प्रस्थिताः तदा तद्दिवसा-ऽन्यदिवसानीतं सर्वमपि प्रायोग्यं भक्त-पानं गृह्णन्ति । कुतः ? इत्याह-'तत्र' तस्यां वेलायां गृह्यमाणे भद्रकदोषाः प्रान्तदोषाश्च न भवन्ति, पुनर्ग्रहणाभावादिति भावः ।। अथ स्कन्धपदं सङ्खडिपदमडवीपदं च व्याख्याति- [भा.३५७२] अंतो बहि कच्छउडियादि ववहरते पसंगदोसा उ ।
देउल-जनगमादी, कट्ठादऽडविं व वचंते ॥ वृ-क्षेत्रस्यान्तर्बहिर्वा शय्यातरः ‘कक्षापुटिकादि' कक्षाप्रदेशे पुटा यस्य स कक्षापुटिकःगृहीतोभयमोट्टाक इत्यर्थः, आदिशब्दात् कौतुपिकादिबिहिनमिषुव्यवहरन्साधूनां दधिदुग्धादिकं दापयति । तत्र क्षेत्रस्यान्तस्तद्दिननीतमन्यदिननीतं च शय्यातरपिण्डः । बहि पुनस्तद्दिवसनीतं शय्यातरपिण्डः, शेषदिवसनीतं न शय्यातरपिण्डः, परं भूयः प्रसङ्गदोषान्न गृह्यते । एवं देवकुलतडाग-यज्ञादिकांसडी कुर्वता काष्ठादिनिमित्तं च शम्बकंगृहीत्वाऽटवीं व्रजता क्षेत्रान्तर्दीयमानं शय्यातरपिण्डः । क्षेत्रबहिस्तद्दिवसनीतं शय्यातरपिण्डः, न द्वितीयादिदिवसनीतम्, परं तदपि न ग्रहीतव्यम्, मा भूयः सङ्कडिकरणमटवीगमनं वा साधूनां दानार्थं कार्षीदिति कृत्वा ।।
अथ 'गृहे असन् स एव शय्यातरः' इति पदं व्याचष्टे[भा.३५७३] मुत्तूण गेहं तु सपुत-दारो, वाणिजमादी जति कारणेहिं ।
सयं व अन्न व वएज देसं, सेज्जातरो तत्थ स एव होति ॥ 'मुक्त्वा' परित्यज्य गेहंसाधूनपयित्वेत्यर्थः सपुत्र-दारः शय्यातरो वाणिज्यादिभिकारणैर्यदि स्वकमन्यं वा देशं व्रजति तत्रापि स एव शय्यातरो भवति, न पुनर्दूरदेशान्तरस्थितत्वात् तस्य शय्यातरत्वमपगच्छतीति ॥ गतं वणिग्द्वारम् । घटाद्वारमाह
[भा.३५७४] महतर अनुमहतरए, ललियासण कडुअ दंडपतिए य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org