________________
३२१
उद्देशकः २, मूलं-६३, [भा. ३५६०]
___ तं पि य आगतमेत्तं, भणंति अमुएण ने दिन्नं ॥ - -प्रभौ प्रोषिते सति प्राघुणको यस्तस्याभ्यर्हितः समायातः तं वा मित्रं वा तदीयं 'ज्ञातकं वा' स्वजनं 'भणन्ति' अनुज्ञापयन्ति । 'तंच' प्रभुमागतमात्रमेव भणन्ति-'अमुकेन' युष्पन्मित्रादिना अस्माकमिदं गृहं प्रदत्तम् । स चामीष्टनामग्रहणे कृते न निर्घाटयति । अप्रमुविषयं विधिमाह[भा.३५६३] अप्पभुणा उ विदिन्ने, भणंति अच्छामु जा पभू एती।
पत्ते उ तस्स कहणं, सो उ पमाणं न ते इतरे ॥ क्ष-अप्रभुरनुज्ञापितो भणति-अहं न जानामि । ततः साधवो भणन्ति-यावत् प्रभुरागच्छति' तावद्वयंतिष्ठामः । एवमनुज्ञापितेनाप्रभुणा प्रतिश्रये यदा प्रभुः प्राप्तो भवति तदा तस्याग्रे ययाभूतं कथयितव्यम् । कथिते च सददाति वा निष्काशयति वा स एव तत्र प्रमाणम्, न ते पूर्वानुज्ञापिताः 'इतरे' अप्रभवः । एवमुक्तेन विधिना यद् वसतेहणं तदेवानुज्ञातमिति ।। [भा.३५६२] इय एसाऽणुनवणाजतणा पिंडो पभुस्स ऊ वजो।
सेसाणं तु अपिंडो, सो विय वज्जो दुविहदोसा ।। दृ-'इति' एवमुक्तप्रकारेण एषा प्रतिश्रयानुज्ञापनायां यतना प्रोक्ता । अथ शय्यातरपिण्डपरिहरणे यतनाऽभिधीयते-यः प्रभुः स शय्यातर इति कृत्वा तद्गृहे पिण्डो वज्यः । शेषाणाम्' अप्रभूणाम् 'अपिण्डः' शय्यातरपिण्डो न भवति, परं सोऽपि 'द्विविधदोषात्' भद्रकप्रान्तकृतदोषपरिहारार्थं वर्जनीयः ॥ गतं पितापुत्रद्वारम् । अथ सपत्नीद्वारम्[भा.३५६३] एगे महानसम्मी, एकतो उक्खित्ते सेसपडिनीए।
जेट्टाए अनुन्नवणा, पउत्थे सुय जेट्ट जाव पभू ।। कृ-शय्यातरे प्रोषिते सति यास्तदीयाः पल्यस्तासां यद् भोजनं तत्र चतुर्भङ्गी-एकत्र राद्धमेकत्र भुक्तं १ एकत्र राद्धं विष्वग भुक्तं २ विष्वग्राद्धमेकत्र भुक्तं ३ विष्वग्राद्धं विष्वग् भुक्तम् ४। तत्र “एगे महानसम्मी एगतो"ति एकस्मिन् महानसे राद्धमेकतो भुक्तमिति प्रथमभङ्गो गृहीतः । “उक्खित्तं"ति एकत इति पदमनुवर्तते, एकतः-एकस्मिन् स्थाने 'उत्क्षिप्तं मोजनभूमिकां नीतं मुक्तमिति यावत् अर्थादापन्नं विष्वग्राद्धम्, एतेन तृतीयभङ्ग उपात्तः । द्वितीय-चतुर्थभङगौ पुनरवर्जनीयाविति कृत्वा न गृहीतौ । “सेसपडिनीए"त्ति यद् एकत्र राद्धमेकत्र भुक्तं तत्र भुतशेष यद्यपि शेषसपत्नीभि स्वगृहं प्रत्यानीतं तथापि भद्रक-प्रान्तदोषपरिहारार्थं वर्जनीयम्। तथा प्रभौ प्रोषिते तदीया ज्येष्ठभार्या वसतिमनुज्ञाप्यते।अथ सा न सुतमाता ततोऽनुष्ठाऽपि या पुत्रवती। द्वयोर्वा पुत्रवत्योर्याज्येष्ठपुत्रा, यत्पुत्रो वा प्रभुः, यावा स्वयं गृहे 'प्रभुः' प्रमाणभूता सा अनुज्ञापनीया। एषा चिरन्तनगाथा ॥अथैनामेव विवृणोति[भा.३५६४] तम्मि असाहीणे जेट्टपुत्तमाया व जा व से इट्टा |
अह पुत्तमाय सव्वा, जीसे जेहो पभू वा वि।। वृ-'तस्मिन्' गृहस्वामिनि 'अस्वाधीने' असन्निहिते ज्येष्ठा भार्या पुत्रमाता वा या वा "से" तस्य गृहपतेः 'इष्टा' वल्लभा सा वसतिमनुज्ञापनीया । अथ सर्वा अपि पुत्रमातरोऽभीष्टाश्च ततो यस्याः पुत्रो ज्येष्ठस्तामनुज्ञापयन्ति । अथ ज्येष्ठः पुत्रो न प्रभुः ततः कनिष्ठोऽपि यस्याः पुत्रः 1921
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org