________________
उद्देशकः २, मूलं-६३, [भा. ३५४९]
३१९ कस्यापि ग्रामस्य मध्ये स्थलम् । तत्र च ग्रामेण मिलित्वा देवकुलिका कारिता । तत्र साधवः स्थिताः । ते च तत्रोच्चतरे देवकुले स्थिताः ‘सत्कालं' भिक्षाया देशकालं दृष्ट्वा दृष्ट्वा तत्र' तेषु कुलेषु भिक्षार्थं गच्छन्ति, न चैकमपि कुलं तेषां भिक्षां गृह्णतामुद्वरति । एवं च निर्वित्राः सर्वेऽपि गृहस्थाः । ततो निर्गतेषु साधुषु वसतेः' देवकुलिकायास्तैभञ्जनम् ‘मा अन्योऽप्येवमागत्य स्थास्यति' इति । इतश्चान्यस्मिन्त्रीशे स्थलग्रामेऽन्ये केचन साधवो देवकुलिकायां स्थिताः। तेच भगवन्तो निस्पृहाः बहिग्रमिषूद्रामकभिक्षाचर्यया गच्छन्ति स्वाध्यायपराश्च तिष्ठन्ति । ततस्ते गृहस्था आवृत्ताः सम्भूय तान् साधून निमन्त्रयन्ति । साधवो ब्रुक्ते-बाल-वृद्धादीनां कार्ये ग्रहीष्यामः । एवं घृतादि दुर्लभद्रव्यमपि सुलभं भवति, न च शय्याया व्यवच्छेदो जायते ।। गतं ‘दोषा वा के तस्य ?' इति द्वारम् । अथ 'कारणजाते कस्मिन् कल्पते ?' इति द्वारमाह[भा.३५५०] दुविहे गेलनम्मी, निमंतणे दब्बदुल्लभे असिवे ।
- ओमोदरिय पओसे, भए व गहणं अनुन्नायं ।। वृ-'द्विविधे' आगाढे अनागाढे च ग्लानत्वे १ तथा निमन्त्रणे २ दुर्लभद्वये ३ अशिवे ४ अवमौदर्ये ५ प्रद्वेष वा राजद्विष्टे ६ भये वा' बोधिकस्तेनादिसमुत्थे७, साम्प्रतमेनामेव विवृणोति[भा.३५५१] तिपरिरयमनागढे, आगाढे खिप्पमेव गहणं तु।
कञ्जम्मि छंदिया घेच्छिमो त्ति न य बेंति उ अकप्पं ॥ कृत्रिपरिरयं त्रीन् वारान् परिभ्रमणं तदनागाढे ग्लानत्वे कर्तव्यम् । यदि तथापि ग्लानप्रायोग्य न लभ्यते ततः पञ्चकपरिहाण्या मासलघुप्राप्ताः शय्यातरपिण्डं गृह्णन्ति । आगाढे तु ग्लानत्वे क्षिप्रमेव ग्रहणं कार्यम् । तथा शय्यातरेण 'भक्त-पानमस्मदृहे गृह्णीत' एवं 'छन्दिताः' निमन्त्रिताः सन्तो भणन्ति-कार्ये समुत्पन्ने ग्रहीष्याम इति। न च ब्रुवते-युष्मदीयं भक्तपानमस्माकं न कल्पते।। [भा.३५५२] जंवा असहीणं तं, भणंति तं देह तेन जे कजं ।
निबंधे चेव सई, घेत्तूण पसंग वारेति॥ - यद् वा द्रव्यं तस्य गृहे 'अस्वाधीन' नास्तीत्यर्थः तद् ‘भणन्ति' याचन्ते इत्यर्थः । यथाअमुकं द्रव्यं प्रयच्छत तेनास्माकं गुरुतरं कार्यम् । अथ शय्यातरो निर्बन्धम्-अतीवाग्रहं करोति ततः 'सकृद्' एकवारं गृहीत्वा भूयः प्रसङ्ग निवारयन्ति ॥ [भा.३५५३] दुल्लभदव्वं व सिया, संमारघयादि घेप्पती तंतु। .
ओमऽसिवे पनगादिसु, जतिऊणमसंथरे गहणं ॥ -दुर्लभद्रव्यं वा सम्भारघृतादिकं शय्यातरगृहे स्यात्, सम्भारः-बहुद्रव्यसंयोगस्तप्रधानं घृतं सम्भारघृतम्, आदिशब्दात् शतपाकतैलादि, तच्च ग्लानादिनिमित्तं शय्यातरगृहे गृह्यते । अवमौदर्याऽशिवयोरसंस्तरणे पञ्चकहान्या यतित्वा मासलघुप्राप्ताः शय्यातरकुले ग्रहणं कुर्वन्ति । [भा.३५५४] उवसमणट्ठ पदुद्दे, सत्थो वा जा न लब्बते.ताव ।
अच्छंता पच्छन्नं, गेण्हंति भए वि एमेव ॥ वृ-प्रद्विष्टस्य राज्ञ उपशमनार्थं तिष्ठन्तः, यद्वा.राज्ञा निर्विषया आज्ञप्ताः सन्तो यावत् तत्र सार्थो न लभ्यते तावत् प्रच्छन्नं तिष्ठन्तः शय्यातरकुले भक्त-पानं गृह्णन्ति, मा पर्यटतो राजा वा राजपुरुषा वा द्राक्षन्निति कृत्वा । भयं-बोधिकस्तेनादिप्रभवंतत्र बहिमिषु भिक्षां गन्तुं न शक्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org