________________
३१८
बृहत्कल्प-छेदसूत्रम् -२-२/६३ संघसग-सासभया, न विहरइ विहारकामो वि॥ वृ-'अत्यघवं' गौरवंतच द्विधा उपघौ शरीर च । तत्र 'देहे' देहविषयमलाघवमिदम्-स्निग्धंधृतादि तेन आदिशब्दाद् गुड-शर्करादिमधुरद्रव्यैः प्रतिदिनमभ्यवहियमाणैबृहितशरीरः सन्मार्गे गच्छतां शरीरजाड्यसमुत्थो यो गात्रसङ्घर्षोयश्च श्वासः तद्भयाद्विहरयणकामोऽपिन विहरति।। अथोपकरणालाघवमाह[मा.३५४७] सागारि-पुत्त-भाउग-नत्तुग दान अतिखद्ध भारभया ।
न विहरति ओम सावय, नियडाऽगणि भाण एज त्ति ।। वृ-सागारिकेण-शय्यातरेण तदीयैश्च पुत्रातृभिनत भिश्च-पौत्रैः कस्यापि साघोरतिखद्धस्यअतीवप्रभूतस्य कम्बलाधुपकरणस्य दानमकारि, सच साधुस्तद्भारभयात्रा विहरति । अन्यदा च तत्र 'अवमं दुर्भिक्षं सातम्, स च तदापि न विहरति । “सावय" ति श्रावकेण चिन्तितम्एष साधुः किमद्यापि न विहरति ? नूनं बहूपकरणप्रतिबद्धोऽयम् । ततस्तेन श्रावकेण तस्य संयतस्य भिक्षाद्यर्थं विनिर्गतस्य सर्वमप्युपकरणं निष्काश्यान्यत्र सगोप्य 'निकृत्या' मायया तदीय उपाश्रयः सर्वोऽपि “अगनि" त्ति अग्निना प्रदीपितः । ततः समायातः संयतः, ईष्टः प्रतिश्रयो दग्धः, कृतवान् ‘हा कष्टम् ! हा हा कष्टम् !! बहूपकरणं दग्धम् !!!' इति परिखेदम् । पृष्टश्च श्रावकः-किञ्चिदुपकरणं निष्काशितंन वा? इति । स प्राह-न शक्तं किमपि निष्काशयितुम् परं "भाण" ति भाजनद्वयं महता कष्टेन निष्काशितम् । ततः साधुना भणितम्-विहरामि सम्प्रति यस्यां दिशि सुभिक्षम् । श्रावकः प्राह-“एज्ज" त्ति सुभिक्षीभूते भूयोऽप्यागच्छेत् । ततः प्रतिपन्नं साधुना तद्वचनम् । समागतः कालान्तरेण पुनरपि तत्रैवासौ । निवेदितः श्रावकेण यथावस्थितो व्यतिकरः,क्षमयित्वा च दत्तं सर्वमपितदीयमुपकरण । एवमादयो दोषा उपकरणालाघवे भवन्ति।
अथ दुर्लभशय्याद्वारमाह[भा.३५४८] भिक्खा पयरणगहणं, दोगचं अन्नआगमे न देमो ।
पयरण नत्थि न कप्पति, असाहु तुच्छे य पन्नवणा। वृ- कस्यापि श्रेष्ठिनो गृहे पञ्चशतिको गच्छो वर्षासु स्थितः । स च शय्यातरो गृहमानुषाण्यादिशति-यदि साधवो गृहात् तुच्छर्भाजनैर्निर्गच्छन्ति ततो महदमङ्गलं स्यात्, अतो दिने दिनेऽमीषांप्रथममेव भिक्षा दातव्या । ततस्ते साधवः सर्वेऽपि तस्मिन् गृहे प्रतिदिनं प्रथमतः प्रतरणभिश्रां गृह्णन्ति । ततश्च शय्यातरस्य कालान्तरेण 'दौर्गत्यं' दरिद्रता । अन्येषां च साधूनां तत्रागमनम्।तेचतं श्रेष्ठिनंवसति याचन्ते सप्राह-विद्यतेवसतिपरंनप्रयच्छामः । साधुभिरुक्तःकिं कारणं न प्रयच्छसि ? । स प्राह-'प्रतरणं' प्रथमदातव्यभिक्षारुपं नास्ति । साधवो ब्रुवते-न कलपतेऽस्माकं प्रतरणं ग्रहीतुम् । स प्रतिब्रूते-'असाधु' अमङ्गलमिदं यद् मम गृहात् तुच्छर्भाजनैर्निर्गच्छन्ति । ततस्तस्य साधुभि प्रज्ञापनाकृता-आयुष्मन्! इदमेव भवतः परमं मङ्गलं यदेवंसाधूनांवसतिरुपयुज्यते, अनया हि दत्तया भवता सर्वमपि भक्त पानादिकंदत्तमेव भवति। इत्थं प्रज्ञापितः स तेषां वसतिं प्रदत्तवान् । एवं दुर्लभा शय्या भवति ।। अथ व्यवच्छेदद्वारमाह[भा.३५४९] थल देउलिया ठाणं, सतिकालं दगुदगु तहिं गमनं ।
. निग्गए वसहीभंजन, अन्ने उभामगाऽऽउट्टा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org