________________
उद्देशक : २, मूलं-६३, [भा. ३५४१]
३१७ [भा.३५४१] पुर-पच्छिमवज्जेहिं, अवि कम्मं जिनवरेहिं लेसेणं ।
__भुत्तं विदेहएहि य, न य सागरियस्स पिंडो उ । वृ- पूर्वस्तीर्थकरः- ऋषभस्वामी पश्चिमः-श्रीमन्महावीरः एतद्वजैरजितादिभिर्मध्यमजिनवरैर्विदेहजैश्च तीर्थकरैराधाकर्मापि 'लेशेन' सूत्रादेशतः भुक्तं' भोक्तुमनुज्ञातमिति भावः, 'न च' नैव सागारिकस्य पिण्डः । इयमत्र भावना-मध्यमतीर्थकृतां विदेहतीर्थकृतांच ये साधवस्तेषां यस्यैव योग्यमाधाकर्म कृतं तस्यैव न कल्पते शेषाणां तु कल्पते इति तैराधार्मीभोजनमपि कथञ्चिदनुज्ञातम्, न पुनः शय्यातरपिण्डः,
सेज्जायरपिंडम्मी, चाउज्जामे य पुरिसजिढे य।
किइकम्मस्स य करणे, चतारि अवट्ठिया कप्पा । इति वचनात् ।। अथाज्ञाद्वारमज्ञातोञ्छद्वारं चाह[भा.३५४२] सव्वेसि तेसि आणा, तप्परिहारीण गेण्हता न कता।
अनायं च न जुञ्जति, जहिं ठितो गेण्हतो तत्थ ॥ कृसर्वेषामपि तेषां तीर्थकृतां तत्परिहारिणां' शय्यातरपिण्डप्रतिषेधकारिणामाज्ञा तत्पिण्डं गृह्णता न कृता भवति । तथा यत्रैव गृहे स्थितस्तत्रैव भिक्षां गृह्णतोऽज्ञातोञ्छं 'न युज्यते' न घटते, न शुध्यतीत्यर्थः, अज्ञातस्य-अविदितस्य यद् उञ्छ-भैक्षग्रहणंतदज्ञातोञ्छमिति व्युत्पत्तेः॥
उद्गमाशुद्धिद्वारमाह[भा.३५४३] बाहुल्ला गच्छस्स उ, पठमालिय-पानगादिकज्जेसु ।
- सज्झायकरणआउद्विता करे उग्गमेगतरे॥ कृ-गच्छस्य यद् बाहुल्यं-साधूनां प्राचुर्यं तस्माद्धेतोः प्रथमालिका-पानाकौषधादिकार्येषु पुनः पुनः प्रविशतां तथा स्वाध्यायश्रवणेन करणेन च-यथोक्तक्रियाकलापानुष्ठानेन आवर्तिताःआवार्जिता उद्भमदोषाणामेकतरान् कुर्युः ॥ अविमुक्तिद्वारमाह[भा.३५४४] दब्बे भावऽविमुत्ती, दव्वे वीरल्ल हारुबंधनता।।
सउणग्गहणे कड्डण, पइद्ध मुक्को वि आनेइ ।। वृ-अविमुक्तिद्धिधा-द्रव्यतो भावतश्च । द्रव्याविमुक्तौ 'वीरल्लः' ओलायकः पक्षी दृष्टान्तः । सस्नायुः-तन्त्री तद्वन्धनेन पादे बद्धवा यत्र तित्तिरिप्रभृतिकः पक्षी श्यते तत्र मुच्यते, ततस्तेन यदा तस्य शकुनकस्य ग्रहणं कृतं स्यात् तदा भूयोऽपि तयैव तन्त्रया तस्य कर्षणं क्रियते, तत आगतस्य हस्ततले मांसं दीयते, ततो मांसे 'प्रगृद्धः' आसक्तः सन् मुक्तोऽपि स्नायुबन्धनमन्तरेणापि शकुनिमानयति, आनीय च तत्रैवावतिष्ठते । एषा द्रव्याविमुक्ति। अथ भावाविमुक्तिमाह[मा.३५४५] भावे उक्कोस-पनीयगेहितोतं कुलं न छड्डेति ।
हाणादी कजेसु व, गतो वि दूरं पुनो एति ॥ - 'भावे' भावाविमुक्ति पुनरियम्-उत्कृष्टद्रव्यं शाल्योदनादि प्रणीतं-घृतादि तयोर्या गृद्धिलौल्यं ततः 'तत् कुलं शय्यातरसम्बन्धि न परित्यजति । अथवा स्नान-रथयात्रादौ पर्वणि कार्येषु च-कुल-गण-सङ्घप्रयोजनेषु दूरमपि गतो भूयः तत् कुलमागच्छति ।। अथालाघवतां व्याचष्टे[भा.३५४६] उवहि सरीमलाघव, दे हे निद्धाइविंधियसरीरो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org www.ja