________________
३१३
उद्देशक : २, मूलं-६३, [भा. ३५२४] सह यस्य योगो विद्यते स सागारिकः, सर्वधनादेराकृतिगणत्वाद् मत्वर्थीय इक्प्रत्ययः । यतश्चासौ शय्यां-प्रतिश्रयं करोतिअतः शय्याकरः । तस्याः-शय्याया दानाञ्च शय्यादाता भण्यते । यतश्चासौ वसतिं 'गोपासियतुं' संरक्षितुं 'तरति' शक्नोति ततः शय्यातरः; यद्वा 'तत्र' तस्यां-शय्यायां स्थितान् साधून स्तेनादिप्रत्यपायेभ्यो रक्षितुं तरति ततोऽसौ शय्यातरः; अथवा तस्याः-शय्याया दानेन भवौघं संसारप्रवाह तरति अतः शय्यातर उच्यते । यस्माच्च शय्यां पतन्ती छादनलेपनाभ्याम् आदिशब्दात् स्थूणादानादिभिश्च धारयति अतः शय्याधरः; यद्वा तया-शय्याया साधूनां वितीर्णया नरकादात्मान धारयतीति शय्याधरः ।। गतं सागारिकद्वारम् । अथ 'कः पुनः सागारिको भवति ?' इति प्रश्नस्य निर्वचनमाह[भा.३५२५] सेजायरो पभू वा, पभुसंदिट्ठो व होइ कायव्यो ।
एगमनेगे व पभू, पभुसंदिढे वि एमेव ॥ वृ-शय्यातरः प्रभुर्वा प्रभुसन्दिष्टो वा कर्तव्यो भवति। तत्र प्रभुः-उपाश्रयस्वामी। प्रभुसन्दिष्टस्तु तेनैव प्रभुणा यत् कृतप्रमाणतया निर्दिष्टः । यः प्रभुः स एको वा स्यादनेको वा, प्रभुसन्दिष्टोऽपि 'एवमेव' एकोऽनेको वो भवति ।। अमुमेवार्थं विशेषत आह[भा.३५२६] सागारिय संदिट्टे, एगमणेगे चउक्कमयणा तु ।
एगमनेगा वजा, नेगेसु उ वजए एक्कं ।। वृ-सागारिके सन्दिष्टे च एकानेकपदनिष्पना चतुष्कभजना कर्तव्या । सा चेयम् एकः प्रभुरेकं सन्दिशति एष प्रथमो भङ्गः १ एकः प्रभुरनेकान् सन्दिशति इति द्वितीयः २ अनेके प्रभव एक सन्दिशन्ति इति तृतीय ३अनेके प्रभवोऽनेकान् सन्दिशन्ति इति चतुर्थ ४ । अत्र चैको वा अनेके वा शय्यातरा वर्ष्याः । अपवादपदे पुनरनेकेषु शय्यातरेष्वेकं सागारिकं स्थापयित्वा वर्जयेत्, शेषेषु तु प्रविशेत् । एतदुपरिष्टाद् व्यक्तीकरिष्यते ।। अथ ‘कदा सागारिको भवति ?' इति प्रश्नस्य प्रतिवचनमाह[भा.३५२७] अनुनविय उग्गहंगण, पायोग्गाणुन्न अतिगते ठविते ।
सज्झाय भिक्ख भुत्ते, निक्खित्ताऽऽवाए एक्को । वृ-अत्र नैगमनयाश्रिता बहव आदेशाः । तत्रैका आचार्यदेशीयो ब्रूते-क्षेत्रे प्रत्युपेक्षिते सति यदा प्रतिश्रयोऽनुज्ञापितस्तदा सागारिको भवति १ । अपरो भणति-यदा सागारिकस्यावग्रहं प्रविष्टाः २ । अन्यो ब्रूते-यदा तस्य गृहस्याङ्गणं प्रविष्टाः ३ । अपरः प्राह-यदा तृणडगलादिकं प्रायोग्यमनुज्ञापितम् ४ । अन्यो भणति-यदा वसतिम् 'अतिगताः' प्रविष्टाः ५। अपरो ब्रूतेदण्डकाधुपकरणेस्थापितेदानश्राद्धादिकुलानां वा स्थापेन स्थापिते। तदपरः प्राह-यदा स्वाध्यायः कर्त्तमारब्धः ७ । अन्यो भणति-यदा गुरुणां पार्थे उपयोगं कृत्वा भिक्षां पर्यटितुं लग्नाः ८ । अपरो ब्रूते-यदा भोक्तुमारब्धाः ९ । अन्यो भणति-भाजनेषु निक्षिप्तेषु १० । एको ब्रूते-यदा दैवसिकमावश्यकं कृतम् ११॥ [भा.३५२८] पढमे बितिए ततिए, चउत्थ जामे व होज वाधातो।
निव्वाघाए भयणा, सो वा इतरो व उभयं वा ।। . दृ-अपरो भणति-रात्रौ प्रथम यामे गते सति शय्यातरो भवति १२ । तदपरः-द्वितीययामे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org