SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ ३१२ बृहत्कल्प - छेदसूत्रम् -२-२/६३ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह - [भा. ३५१८] जहुत्तदोसेहिं विवज्जिया जे, उवस्सगा तेसु जती वसंता । एग अनेगे व अनुन्नवित्ता, वसंति सामि अह सुत्तजोगो ॥ वृ-यथोक्तैः बीज- विकटादिभिरभ्रावकाशतापर्यन्तैर्दोषैर्विवर्जिताः ये उपाश्रयास्तेषु यतयो वसन्त एक वा अनेकानू वा गृहस्वामिनोऽनुज्ञाप्य वसन्तीत्यनेन सूत्रेण प्रतिपाद्यते । 'अथ' अयं पूर्वसूत्रैः सहास्य सूत्रस्य योग-सम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- एकः 'सागारिकः' वसतिस्वामी परिहारं परित्यागमर्हतीति व्युत्पत्त्या 'पारिहारिकः' भिक्षाग्रहणे परिहर्त्तव्य इत्यर्थः । यथा चैकः सागारिकः पारिहारिकः तथा द्वौ त्रयश्चत्वारः पञ् सागारिकाः पारिहारिकाः, न तेषां बहूनामपि गृहेषु प्रवेष्टव्यमिति भावः । अथ सूत्रेणैव सूत्रमपवदति-"एगं तत्थ कप्पागं” इत्यादि । बहुजनसाधारणे देवकुलादी स्थिताः 'तत्र' तेषु बहुषु सागारिकेषु मध्ये येन सागारिकतया स्थापितेन शेषगृहेषु प्रवेष्टुं कल्पते तमेकं कल्पकं स्थापयित्वा शेषेषु सागारिककुलेषु 'निर्विशेयुः' प्रविशेयुरिति सूत्रसङ्क्षेपार्थः । विस्तरार्थं भाष्यकृद् विभणिषुराह [ भा. ३५१९] सागारिउ को पुन, काहे वा कतिविहो व से पिंडो । असिजायरो व काहे, परिहरियव्वो व सो कस्सा ॥ दोसा वा के तस्सा, कारणजाए व कप्पती कम्मि । [ भा. ३५२०] जयाए वा काए, एगमनेगेसु घेत्तव्वो । वृ- सागारिक इति पदमेकार्थिकनामभि प्ररूपणीयम् । कः पुनः सागारिको भवति ? इति चिन्तनीयम् । कदा वा स शय्यातरो भवति ? । कतिविधो वा "से" तस्य पिण्डः ? | अशय्यातरो वा कदा भवति ? । कस्य वा संयतस्य सम्बन्धी 'सः' सागारिकः परिहर्त्तव्यः ? । 'के वा 'तस्य' सागारिकपिण्डस्य ग्रहणे दोषाः ? । कस्मिन् वा कारणजातेऽसौ कल्पते ? । कया वा यतनया सपिण्ड एकस्मिन् वा सागारिके 'अनेकेषु वा' द्विष्यादिषु सागारिकेषु ग्रहीतव्यः ? इति द्वारगाथाद्वयसमासार्थः ॥ अथ व्यासार्थं प्रतिद्वारमभिधित्सुराह [भा. ३५२१] सागारियस नामा, एगट्ठा नाणवंजणा पंच । सागारिय सेज्जायर, दाता य तरे घरे चैव ॥ वृ-सागारिकस्य नामानि शक्रेन्द्र पुरन्दरादिवदेकार्थानि 'नानाव्यञ्जनानि' पृथगक्षराणि पञ्च भवन्ति । तद्यथा-सागारिकः १ शय्याकरः २ शय्यादाता ३ शय्यातरः ४ शय्याधरः ५ चेति ।। अथैतेषामेव व्याख्यानमाह[मा. ३५२२] अगमकरणादगारं, तस्सहजोगेन होइ सागारी । सेजाकर सेज्जाकरो उ दाता तु तद्दाना ॥ [भा. ३५२३] गोवाइऊण वसहिं, तत्थ वि ते यावि रक्खिउं तरह । तद्दानेन भवोघं, च तरति सेज्जातरो तम्हा ॥ जम्हा धारइ सिजं, पडमाणिं छज्ज-लेपमाईहिं । जं वा तीए धरेती, नरगा आयं धरो तम्हा ॥ [ भा. ३५२४] वृ- न गच्छन्तीत्यगमाः-वृक्षास्तैः कृतमगारम्, पृषोदरादित्वादिष्टरुपनिष्पत्ति, तेन-अगारेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy