SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः २, मूलं-६२, [भा. ३५१३] ३११ F'गुल्मैः' नवमालिका-कोरिण्टकादिभिगुप्ते, वृत्या वा 'तुङ्गया' उच्चस्तरया परिक्षिप्ते, एकद्वारे आरामगृहे अधोऽगुप्तेऽप्युपरि 'छादिते' स्थगिते तिष्ठन्ति, परं यत्र 'बहुः' भूयान् लोको न 'सन्निलीयते' न समायाति ॥ [भा.३५१४] जं वंसिमूलऽन्नमुहं च तेनं, पिहढुवारं न तओ उ छिंडी। सुणेति सदं न परोप्परस्स, न काइयं नेव य दिद्विवातो ॥ कृयद् ‘वंशीमूलम्' अलिन्दकादि तेन' मूलगृहेन सहान्यतोमुखं पृथग्द्वारंच, अत एव 'ततः' तदभिमुखा छिण्डिका न भवति, यत्र च परस्परं संयता अविरतिकाश्च शब्दं न शृण्वन्ति, न चैकत्र कायिकी कुर्वते, नैव च परस्परं दृष्टिपातः, केवलं मूलगृहेण सह द्रव्यतः प्रतिबद्धम्, न चाकाययोजनादयो दोषाः, एवंविधे कल्पते वस्तुम् ॥ [भा.३५१५] असई य रुक्खमूले, जो दोसा तेहि वज्जिए ठंति । अद्धाणमब्भवासे, गेलन्नागाढ वइगादी। एतेषामागमनगृहादीनामभावे पूर्वमस्थि-दारुकादयो दोषा उक्तास्तैर्वर्जिते वृक्षमूले तिष्ठन्ति। तथा अध्वानं प्रतिपत्रा अपरप्रतिश्रयाभावेआगाढे वा ग्लानत्वे व्रजिकादौ सम्प्राप्ता अभावकाशे वसन्ति ।। अथ वृक्षमूले तिष्ठतां विशेषमुपदर्शयति[मा.३५१६]कडं कुणंतेऽसति मंडवस्सा, कडाऽसती पोत्तिमतेनगम्मि। . सद्दोवओगो धनुतासणा य, सोट्टादि पाडिंति य पुवलग्गे ॥ खु-यत्र वृक्षमूलेऽधस्ताद् मण्डपो भवति तत्र प्रथमतः स्थातव्यम् । तदभावे कटं कुर्वन्ति, कटचिलिमिलिकां ददतीति भावः । अथ कटोन प्राप्यते ततः पोतं-वस्त्रं तैश्चिलिमिलिकाः कुर्वन्ति यदि 'अस्तेनकं स्तेनभयं न स्यात् । अथ स्तेनभयं तत्र वर्तते सागारिका वा ब्रुवते 'श्रमणकाः पटमण्डपं कुर्वन्ति ततः शब्दः कर्तव्यः, पक्षिणां छिछिका' इत्यादिना शब्देन निवारणं कार्यमिति भावः । उपयोगो वा दातव्यः । धनुषा वा पाषाणैर्वा पक्षिणां वासनां कुर्वन्ति, भयमुपजनयन्तीत्यर्थः। सोट्टा नाम-शुष्ककाष्ठानि तानि आदिशब्दाद् लेष्टुकादानि च पूर्वलग्नानि पातयन्ति । एषा वृक्षमूले तिष्ठतां यतना भणिता । अथाभावकाशे तिष्ठतां प्रतिपाद्यते-आगाढे ग्लानत्वे दुग्धादिना प्रयोजनं भवेत् तत्राभ्रावकाशे वसनं सम्भवेत् । कथम् ? इत्याह[भा.३५१७] विसोहिकोडिं हवइत्तु गामे, चिरं व कजं ति वयंति घोसं। अब्मासगामाऽसति तस्य गंतुं, पडालि-रुक्खाऽसतिए अछने । वृ- यदा स्वग्रामे शुद्धं दुग्धादि न प्राप्यते तदा स्वग्राम एव ये विशोधिकोटिदोषास्तान् पञ्चकादिप्रायश्चित्तक्रमेण हापयित्वा दुग्धादिकं गृह्णन्ति । अथ तथापि न लभ्यते 'चिरं वा' प्रभूतदिवसान् तेन ग्लानस्य कार्यमिति कृत्वा ‘घोष गोकुलं व्रजन्ति । कथम् ? इत्याह-'अभ्यासे' गोकुलप्रत्यासन्ने ग्रामे स्थित्वा गोकुलाद् दुग्धादिकमानेतव्यम् । अथ नास्ति प्रत्यासनग्रामस्ततः 'तत्र' वजिकायां गत्वा पटालिकायां तिष्ठन्ति । तस्या अभावे वृक्षमूले । तस्याप्यभावेऽच्छन्नेऽभ्रावकाशेऽपि तिष्ठन्ति ।। मू. (६३) एगे सागारिए पारिहारिए, दो तिनि चत्तारि पंच सागारिया पारिहारिया, एगं तत्थ कप्पागं ठवयित्ता अवसेसे निव्विसेजा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy