SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ३१० बृहत्कल्प-छेदसूत्रम् -२-२/६१ -'तस्य यथोक्तगुणोपेतस्य वंशीमूलगृहस्याभावे ऊर्ध्वविवृतगृहे उपरि कटादिकं प्रक्षिप्य तिष्ठन्ति, आदिशब्दावस्त्रचिलिमिलिकया वाऽऽच्छादनं कुर्वन्ति । तस्याभावे पार्श्वविवृतेऽपि तिष्ठन्ति, अधोविवृते इत्यर्थः । तत्रच कट-किलिञ्चादिभिश्चिलिमिलिकां कृत्वा पार्श्वतः पदद्यात्। अथ कटादयो न प्राप्यन्ते ततः 'प्रान्तवस्त्रैः' परिजीर्णचीवरैः पावनि छादयितव्यानि ।। [भा.३५०९] विहं पवना धनरुक्खहेटे, वसंति उस्सा-ऽवणिरक्खणट्ठा। तस्साऽसती अब्भगवासिए वि, सुवंति चिट्ठति व उत्रिछना ॥ वृ-अथ विहं' अध्वानं प्रपन्नास्ताः संयत्यस्तत्र चाधोविवृतमपि गृहं न प्राप्यते ततो घनःबहलो निश्छिद्रो यो वृक्षः-वटादिस्तस्याधस्ताद् अवश्यायस्य-अन्तरिक्षसूक्ष्मा कायस्य अवनेश्वसचित्तपृथिवीकायस्य रक्षणार्थं वसन्ति । तस्याप्यभावे 'अभ्रावकाशकेऽपि' आकाशे और्णिककल्पच्छन्नाः स्वपन्ति वा तिष्ठन्ति वा ।। मू. (१२) कप्पइ निग्गंधाणं अहे आगमनगिहसि वा वियडगिहंसि वा वसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासंसि वा वत्थए । दृ.अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्[भा.३५१०] एसेव गमो नियमा, निग्गंथाणं पि नवरि चउलहुगा । नवरिं पुन नाणत्तं, अब्भावासम्मि वतिगादी ।। वृ-“एष एव' निर्ग्रन्थीसूत्रोक्तो गमः आगमनगृहादिविषयो नियमाद् निर्ग्रन्थानामपि भवति, नवरं प्रायश्चित्तं चतुर्लघुकाः, शेषं तु सर्वमपि दोषजालं तथैव वक्तव्यम् । नवरं पुनरत्र द्वितीयपदे तिष्ठतां नानात्वम् ।किम् ? इत्याह-वजिका-गोकुलं तस्यां ग्लानार्थंगताः सन्त आदिशब्दादध्वनि वा वर्तमाना अभ्रावकाशे वसेयुः । उत्सर्गतस्तु निर्ग्रन्थानामप्यागमनगृहादिषु स्थातुंन कल्पते।। आह सूत्रेणानुज्ञातमवस्थानमतस्तेन सह विरोधः प्राप्नोति? सूरिराह[भा.३५११] सुत्तनिवाओ पोराण आगमे भोइए व रखते। आराम अहेविगडे, वंसीमूले व निहोसे ।। कृ-पुराणं-चिरन्तनं यदागमनगृहं तत्र सागारिकः सम्प्रति कोऽपि नागच्छति, यद्वा यत्रागमनगृहे स्थितानां भोजिक:-ग्रामस्वामी जनमुपागच्छन्तंरक्षति, ईशे 'सूत्रनिपातः' सूत्रावतारोमन्तव्यः। तथा य आरामो नवमालिकागुल्मादिभिर्गुप्तस्तत्राधोविवृते सूत्रमक्तरति। वंशीमूलमपि यद् निर्दोष तत्रसूत्रावतारः । अथैनामेव नियुक्तिगाथां भाष्यकारः स्पष्टयति[भा.३५१२]अभुजमाणी उ सभा पवा वा, गामेगपासम्मि न याऽनुपंथे । पभू व वारेति जनं उवेंतं, न कुप्पती सो य तर्हि तुठंति ॥ वृ-सभा वा प्रपा वा या अपरिभुज्यमाना ग्रामस्यैकपार्वे भवति, 'न च' नैव 'अनुपथे' मार्गाभ्यर्णे यद्वा भुज्यमानायामपि यत्र स्थितानां 'प्रभुः' ग्रामस्वामी सम्यग्दृष्टिर्भद्रको वा जनमुपयान्तं निवारयति, 'सच' जनो वार्यमाणः साधूनां ग्रामस्वामिनो वान कुप्यति तत्र' ईशे आगमनगृहेऽपि तिष्ठन्ति । [भा.३५१३] गुम्मेहि आरामघरम्मि गुत्ते, वईय तुंगाय व एगदारे । अहे अगुत्ते छइतम्मि ठंती, न जत्थ लोगो बहु सन्निलेति ।। Jain Education International -For Private-a-Personal use-only www.jaineltbrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy