________________
३०९
उद्देशकः२, मूलं-६१, [भा. ३५०४] इत्याह-गेहस्य पार्वे वापुरतोवा पृष्ठतो वा तद्वंशीमूलं नाम गृहं कुशलाः' तीर्थकरादयो वदन्ति। अत्र तिष्ठन्तीनां प्रतिबद्धसूत्रोक्ता दोषाः ॥ अथ वृक्षमूला-ऽभ्रावकाशयोर्दोषानाह[भा.३५०५] अढि व दारुगादी, सउणगपरिहार पुष्फ-फलमादी।
एवं तु रुक्खमूले, अब्भावासम्मि सिण्हाई॥ वृ-अस्थि वा दारुकंवा आदिशब्दाद् लेष्ठुकादिकं वा वातेन चालितं सत् प्रपतेत्, शकुनाःपक्षिणस्तेषां सम्बन्धी परिहारः-पुरीषमुपरि निपतेत्, पुष्पाणि वा फलानि वा आदिशब्दाद् पत्राणि वा पतेयुः, एषु यथायोगमात्म-संयमविराधना मन्तव्या। एवं वृक्षमूले वृक्षस्याधोवर्तिनि वा गृहे ' तिष्ठन्तीनां दोषाः । अभावकाशे तु सिण्हा-अवश्यायो भवेत्, आदिशब्दात् सचितं रजः प्रपतेदित्यादिपरिग्रहः ।अवश्यायेनार्दीभूतानां विसूचिकादिभिरामविराधना मन्तव्या । यत एते दोषा अतोन आगमनगृहादिषु स्थातव्यम् । भवेत् कारणं येन तत्रापि स्थीयते ॥ किम् ? इत्याह[भा.३५०४] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असतीये ।
वाडगआगमणगिहे, इयरम्मि य निग्गहसमत्थे॥ वृ-अध्वनिर्गतादयस्त्रिकृत्वो निर्दोषां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततो वाटकस्य मध्यवर्ति यद् आगमनगृहं-देवकुलादिकं तत्र वसन्ति । कथम् ? इत्याह-इतरः-शय्यातरः स यदि निग्रहसमर्थ-जितेन्द्रियः प्रत्यनीकनिवारणक्षमश्च भवति ततस्तत्र वस्तव्यम्, नान्यथा ॥
अथेदमेव स्फुटतरमाह[भा.३५०५] जं देउलादी उ निवेसणस्सा, मज्झम्मि गुत्तं सुपुरोहडं च ।
अदुट्ठगम्मं न य दुट्ठमझे, अदूरगेहं तहियं वसंति ।। कृ'निवेशनस्य' वाटकस्य मध्ये यदेवकुलादि 'गुप्त' वृत्या फलिहकेन वा आवृतम्, 'सुपुरोहडं' रमणीयसंयतीप्रायोग्यविचारभूमिकम्, अदुष्टानां-शिष्टजनानां गम्यम्-आश्रयः, न च दुष्टजनमध्ये तद् वर्तते, ‘अदूरगेहं प्रत्यासन्नप्रातिवेश्मिकगृहं तत्र प्रथमतो वसन्ति ।।। [भा.३५०६] जुवाणगा जे सविगारगा य, पुत्तादओ तुज्झ इहं वसंति ।
मा ते वि अम्हं इह संवयंतु, इच्छंत सत्ते य वसंति तत्थ ॥ वृ-तत्र यः सागारिकस्तं ब्रुवते-ये युवानः सविकाराः पुत्रादयस्त्वत्सम्बन्धिनः ‘इह' अस्मिन् गृहे वसन्ति मा तेऽप्यस्माकं प्रतिश्रये सम्प्रति संव्रजन्तु' समायान्तु । एवमुक्ते यद्यसौ ‘इच्छति' प्रतिशृणोति, यदि च स्वयं शक्तः' तन्निवारणक्षमः ततस्तत्र वसन्ति ।। (भा.३५०७] भोइयकुले व गुत्ते, दुञ्जणवने वसंत उ पउत्थे ।
महतरगादिसुगुत्ते, वंप्तीमूलम्मि ठायंति ॥ वृ- अथेद्दशमागमनगृहं न प्राप्यते ततो भोजिकस्य-ग्रामस्वामिनः कले-गृहे 'गुप्ते'.वृत्या फलिहकेन वा सुसंवृते 'दुर्जनवर्जे' दुःशीलजनप्रवेशरहिते यदलिन्दकादि तत्र वसन्ति । स च भोजिको यदि प्रोषितस्तदा महत्तरकादिभि-प्रधानपुरुषैस्तद् गृहं यदि सुगुप्त-सुरक्षितं भवति तत एवंविधे वंशीमूलगृहे तिष्ठन्ति ।। [मा.३५०८] तस्सऽसइ उड्ववियडे, वसंति कडगादि छोढुणं उवरिं। .
तस्सऽसति पासवियडे, कडगादी पंतवत्थेहिं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org