SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २, मूलं - ५५, [भा. ३४१८] एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहार वा ॥ वृ- अथास्य सम्बन्धमाह [भा. ३४१९] छोढूण दवं पिज्जइ, गालिंति दवं व छोटुणं तं तु । पातुं मुहं व थोवइ, तेनऽहिकारो सजीवं वा ।। वृ-यतः 'द्रवं' पानीयं प्रक्षिपय विकटं पीयते, अतो विकटसूत्रानन्तरमुदकसूत्रम् । यद्वा द्रवं प्रक्षिप्य 'तद्' विकटं गालयन्ति, अथवा विकटं पीत्वा तज्ञ्जनितदौर्गन्धव्यपगमार्थमुदकेन मुखं धावति तेन कारणेन विकटानन्तरमुदकाधिकारः प्रारभ्यते । यद्वा तद् विकटं निर्जीवम् इदं तु सजीवं निजींव वा भवेदितिर ।। अनेकैः सम्बन्धैरायातस्यास्य व्याख्या प्राग्वत् । नवरं विकृतशीतोष्णादिशस्त्रेण विकारं प्रापितम्, प्राशुकीकृतमित्यर्थः, शीतोदकं च तद् विकृतं च शीतोदकविकृतं तस्य कुम्भः घटः । एवमुष्णोदकविकृतकुम्भोऽपि ।। अथ भाष्यम्[भा. ३४२०] सीतोदे उसिणोदे, फासुगमप्फासुगे य चउभंगो । ठायंतगाण लहुगा, कास अगीतत्य सुत्तं तु ॥ वृ-शीतोदकोष्णोदक- प्राशुका ऽप्राशुकपदैश्चतुर्भङ्गी भवति । गाथायां प्राकृतत्वात् पुंस्तवनिर्देशः । तद्यथा - शीतोदकं प्राशुकं १ शीतोदकमप्राशुकम् २ उष्णोदकं प्राशुकम् ३ उष्णोदकमप्राशुकम् ४ । तत्र प्रथमभङ्गे उष्णोदकमेव शीतीभूतं तन्दुलधावनादिकं वा, द्वितीयभङ्गे शीतोदकमेव स्वभावस्थम्, तृतीयभङ्गे उष्णोदकमुद्व तत्रिदण्डम्, चतुर्थभङ्गे तापोदकादिकं मन्तव्यम् । एवंविधोदकप्रतिबद्धे प्रतिश्रये तिष्ठतां चतुर्लघुकाः । एवमविशेषेणोक्तावप्ययं विशेष:प्रथमतृतीयभङ्गयोर्मासलघु । द्वीतीयचतुर्थभङ्गयोश्चतुर्लघवः आह च निशीथचूर्णिकृत् - पढमतइयभंग ठायंतस्स मासलहुं । बीयचउत्थेसु चउलहुं। आह कस्य पुनरेतत् प्रायश्चित्तम् ? गुरुराह-अगीतार्थस्य । सूत्रं पुनरनुज्ञाविषयं गीतार्थमधिकृत्य प्रवृत्तमित्युपस्कारः । इत उर्ध्वम् "नत्थि अगीयत्यो वा०" इत्यारभ्य “कासइ इच्छा समुप्पन्ना'' इतिपर्यन्तं भाष्यमुदकाभिलापविशेषितं वक्तव्यम् ॥ कीशी पुनरिच्छा तस्य समुत्पन्ना ? उच्यते [भा. ३४२१] अनुभूया उदगरसा, नवरं मोत्तुं इमेसि उदगाणं । काहामि कोउल्लं, पासुत्तेसुं समारद्धो ॥ २९३ वृ- 'अनुभूता मया उदकानां रसाः, नवरं मुक्त्वा अमीषामुदकानां रसान्, अतः करिष्याम्यहमेतद्विषयं कुतूहलं सफलम्' इति विचिन्त्य प्रसुप्तेषु शेषसाधुषु समारब्ध उदकपानं कर्तुम् ।। कानि पुनस्तान्युदकानि ? इत्याह [भा. ३४२२ ] धरोदए महासलिलजले संभारिते व्व दव्वेहिं । तण्हातियस्स व सती, दिया व राओ व उप्पज्जे । बृ- 'धारोदकं नाम' गिरिनिर्झरजलम्, यथा उज्जयन्तादौ, आन्तरिक्षं वा धारोदकम् । तथा महासलिला:- गङ्गा-सिन्धुप्रभृतयो महानद्यः तासां जलं महासलिलाजलम् । 'द्रव्यैः कर्पूरपाटलादिभिः 'सम्भारितं' वासितं द्रव्यसम्भारितम् । एषु पानीयेषु तृष्णायितस्याभिलाषो भवति । पूर्वानुभूतेषु तु दिवा वा रात्री वा 'स्मृति' संस्मरणमुत्पद्यते ॥ ततश्चोदकमापिबन्नात्मनो हृदयस्य प्रत्युक्षमिदमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy