________________
बृहत्कल्प-छेदसूत्रम् -२-२/५४
२९२
furमीषां पाषण्डिनां धर्ममिति ॥
[भा. ३४१५ ] बंधित्तु पीए जयणा ठवेंति, मुद्दा जहा चिट्ठइ अक्खुया से । ऊणम्मि दिट्ठम्मि भणेति पुट्ठा, नूनं परिस्संदति भाणमेयं ॥
वृ- विकटे पीते तद् भाजनं द्वारदेशे वस्त्रादिना बद्धघा 'जतुना' लाक्षया स्थगयन्ति, यथा "से" तस्य भाजनस्य मुद्रा अक्षता तिष्ठति । अथ सागारिकः तद् भाजनमूनं दृष्ट्वा पृच्छतिकिमर्थमिदं न्यूनमवलोक्यते ? । एवं पृष्टाः सन्तो भणन्ति नूनं भाजनमिदं परिस्यन्दति ॥
[भा. ३४१६] सव्वम्मि पीए अहवा बहुम्मि, संजोगपढी व ठयंति अन्नं । अन्नं व मग्गित्तुं छुर्हति तत्था, कीयंकयं वा गिहिलिंगमाई ।।
वृ- सर्वस्मिन् अथवा बहुके विकटे पीते सति ये 'संयोगपाठितः ' विकटनिष्पत्तियोग्यद्रव्यसंयोगवेदिनस्ते तथाविधानि द्रव्याणि संयोज्य अन्यद् विकटं स्थापयन्ति । अथ न सन्ति संयोगपाठिनस्ततोऽन्यद् विकटं मार्गयित्वा तत्र प्रक्षिपन्ति । तच प्रथमतः शुद्धम्, तदभावे पञ्चकपरिहाण्या चतुर्लघुकं प्राप्तेन क्रीतकृतमपि ग्रहीतव्यम् । यदि स्वलिङ्गेन गृह्णतामुड्डाहो भवति, न वा तेन प्राप्यते ततो गृहिलिङ्गम् आदिशब्दादन्यतीर्थिकलिङ्गं वा कर्त्तव्यम् ।।
अथ "गेलने अहव तेन गंधेनं" इत्यादिपदानि व्याख्याति
[ भा. ३४१७] तब्मावियट्ठा व गिलाणए वा, पुराण सागारिय सावए वा । चीसंभणी आण कुलाणऽभावा, गिण्हंति रुवस्स विवज्जएणं ॥
वृ-तेन विकटेन पूर्वं भावितस्तद्भावितः स तत्र विकटेनाध्युपपन्नो भवति; ग्लानो वा कश्चित् तनैवोपयुक्तेन प्रगुणीभवति नान्यथा; ततस्तदर्थं 'पुराणस्य' पश्चात्कृतस्य सकाशात्, तदभावे माता- पितृसमानो यः सागारिकस्तस्य हस्तात्, तदप्राप्तौ प्रतिपन्नाणुव्रतस्य माता- पितृसमानस्य श्रावकस्य पार्श्वाद् ग्रहीतव्यम् । अमीषामभावे यथाभद्रकाण्यपि यानि विश्रम्भणीयानि कुलानि, नोड्डाहकारीणीत्यर्थः तेषु ग्रहीतव्यम् । तेषामभावे यदि खलिङ्गेनगृह्यते ततः प्रवचनोपधातो भवेत् ततो रूपस्य विपर्ययेण गृह्णन्ति, लिङ्गविवेकं कृत्वा विकटमुत्पादयन्तीति भावः ।। [मा. ३४१८ ]अञ्च्चाउरं वा वि समिक्खिऊणं, खिष्पं तओ घेत्तु दलित्तु तस्स । अनं रसं वा वि तहिं छुभंती, संगं च से तं हवयंति तत्तो ॥
वृ- अत्यातुरं वा तं ग्लानं समीक्ष्य 'क्षिप्रं शीघ्रं 'ततः प्रतिश्रयवर्तिनो विकटभाजनाद् गृहीत्वा 'तस्य' ग्लानस्य दत्त्वा गीतार्थास्तत्रान्यं वा रसं प्रक्षिपन्ति ततश्च "से" तस्य ग्लानस्य 'तं' विकटविषयं सङ्ग हापयन्ति, कार्ये निष्ठिते सति विकटप्रसङ्गं निवारयन्तीति भावः ॥ गता स्वपक्षयतना । अथ परपक्षयतनामाह
"परपक्खम्मि विदारं, पिहंति जयणाए दो वि वारिति ।
तह वि य अठायमाणे, उवेह पुट्ठा व साहति ॥"
इत्यादिका मद्याभिलापविशेषिता गाथाः सर्वा अपि तथैवात्र वक्तव्याः ||
मू. (५५) उवस्सयस्स अंतो वगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गंधीण वा अहालंदमवि वत्थए । हुरत्था य उवस्यं पडिलेहमाणे नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org