________________
उद्देशक ः २, मूलं-५४, [भा. ३४१०]
२९१ शैक्षस्य भवेत्, विपरिणतश्च सम्यग्दर्शनं चारित्रं लिङ्ग वा परित्यजेत् । तथा 'तेन' संयतेन विकटभाजनं गृह्णता वाशब्दाद् मुञ्जता वा तद भाजनं 'खण्डितम्' एकदेशभग्नं 'विद्धं वा' पातितच्छिद्रं 'भिन्नं वा' द्विधाकृतं भवेत् ।। इत ऊर्ध्वं “फेडिय मुद्दा तेनं" इत्यारभ्य “अम्हे ठिएल्लन च्चिय, अहापवत्तं वहह तुब्भे" इतिपर्यन्तं गाथाकदम्बकं तथैवाध्येतव्यम् । नवरं मद्याभिलापः कर्तव्यः । ततश्च[भा.३४११] आमं ति अब्भुवगए, भिक्ख-वियाराइनिग्गयमिएसु।
भणइ गुरु सागारिय, कहि मज्जं जाणणट्ठाए । वृ-यदि शय्यातरेण 'आमम्' इत्यभ्युपगतं 'यूयं निश्चिन्तास्तिष्ठथ, वयं यथाप्रवृत्तं व्यापारं चिन्तयिष्यामः' इति ततः 'गुरु' आचार्यो भिक्षाचर्या-विचारभूम्यादिनिर्गतेषु मृगेषु-अगीतार्थसाधुषु सागारिकं भणति 'कुत्र मद्यमस्ति ?' इत्येवं परिज्ञानार्थम् ।। किं भणति? इत्याह[भा.३४१२] गोडीणं पिट्ठीणं, वंसीणं चेव फलसुराणं च ।
दिट्ठ मए सन्निचया, अन्ने देसे कुडुंबीणं ॥ वृ. 'गौडीनां गुडनिष्पन्नानां 'पैष्टीनां ब्रीह्यादिधान्यक्षोदनिष्पन्नानां 'वांशीनां' वंशकरीलकनिष्पन्नानां ‘फलसुराणांच' तालफल द्राक्षा-खजूरादिनिष्पन्नानाम् एवंविधानां सुराणां सत्रिचया अन्यस्मिन् देशे मया कुटुम्बिनां गृहेषु दृष्टाः ।।
“एवं च भणियमित्तम्मि कारणे सो भणाइ आयरियं ।
अस्थि महं सन्निचया, पिच्छह नानाविहे मजे ॥" इत्यादिकाः “दारं न होइ इत्तो०" इतिपर्यन्ता गाथाः प्राग्वदत्र सव्याख्याना द्रष्टव्याः । अथात्रैव या विशेषतो यतना कर्तव्या तामभिधित्सुराह[भा.३४१३] गहियम्मि व जा जयणा, गेलन्ने अधव तेन गंधेनं ।
सागारियादिगहणं, नेयव्वं लिंगभेयाई ।। कृ-शैक्षकेण विकटे 'गृहीत' पीते सति या यतना कर्त्तव्या सा वक्तव्या । ग्लानत्वे वा वैद्योपदेशेन विकटं ग्रहीतव्यम्, अथवा 'तेन' विकटसम्बन्धिना गन्धेन कस्यापि गृहवासे विकटभावितस्याध्युपपातो भवेत्, ततः सागारिकः-शय्यातरःस आदिशब्दात् श्रावको वा यो मातापितृसमानस्ततो विकटस्य ग्रहणं कर्त्तव्यम्। यदि खलिङ्गेनन प्राप्यते उड्डाहो वा भवति ततो लिङ्गभेदादिकमपि 'नेतव्यं' कर्तव्यमिति यावत् । एष नियुक्तिगाथासमासार्थः ॥अथैनामेव विवरीषुराह[भा.३४१४]पीयं जया होजऽविगोविएणं, तत्थाऽऽनइत्ताण रसं छुभंति ।
भिन्ने उ गोणादिपए करेंति, तेसिं पवेसस्स उ संभवम्मि ।। वृ- यदा किल ‘अविकोविदेन' शैक्षकेण शेषसाधुषु प्रसुप्तेषु तद् विकटं पीतं भवेत् तदा गीतार्था 'तत्र' विकटभाजने 'रसम्' इक्षुरसादिकमानीय प्रक्षिपन्ति । अथ कथमपि तद् भोजनं गृह्यमाणं मुच्यमानं वा भिन्नं ततो भिन्ने सति तस्मिन् गवादीनां पदानि प्रतिश्रयप्राङ्गणे प्रविशन्ति निर्गच्छन्ति च 'कुर्वन्ति' आलिखन्तित्यर्थः, येन सागारिको जानीते, यथा- गवादिना प्रविश्य भग्नमिदं भाजनमिति । परं यदि 'तेषां' गवादीनां तत्र प्रवेशः सम्भवति; अन्यथा हि सागारिकः प्रद्वेषं यायातू-एकं तावदमी इत्थं स्तेनकर्मकारिणः अपरं च तदपह्नवनायेत्थं प्रपञ्चमुपरचयन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org