________________
२९०
बृहत्कल्प-छेदसूत्रम् -२-२/५४ विवक्षितोपाश्रयाद् वहिर्वर्तिनी वगडा सा “हुरत्था'' इति शब्देनोच्यते । अथ परः प्राहपरिहारस्तावत् तपोविशेष उज्यते, छेदस्तु पर्यायच्छेदरुपः, ततः सूत्रे “से संतरा परिहारे वा छए वा" इति पठितुमुचितम्, किमर्थं व्यत्यासेन पाठः ? इत्याशझ्याह-बन्धानुलोभ्येन सूत्रे परिहारपदात् पूर्व छेदपदं कृतम् । किमुक्तं भवति?-एवंविधो हि पाठः सुललितपदविन्यासतया सुश्चिलष्टो भवतीति कृत्वा सूत्रकृता प्रथमं छेदपदमुपन्यस्तम् ।। [भा.३४०५] अहवण वारिजंतो, निकारणओ व तिण्ह व परेणं ।
छेयं चिय आवजे, छेयमओ पुबमाहंसु ।। वृ-अथवा यदि तत्र विकटयुक्तोपाश्रये गुर्वादिना वार्यमाणः 'निष्कारणतोवा' दर्पतस्तिष्ठति, त्रयणां वाऽहोरात्राणां परतस्तिष्ठति, तदा छेदाख्यमेव प्रायश्चितमसावापद्यते, अतश्चेदपदं पूर्व प्रथममुक्तवन्तो भगवन्तो भद्रबाहुखामिनः ॥ अथ सुरा-सौवीरकपदे व्याचष्टे[भा.३४०६] पितॄण सुरा होती, सोवीरं पिट्ठवज्जियं जाणे ।
ठायंतगाण लहुगा, कास अगीयस्थ सुत्तं तु ।। वृ..ब्रीह्यादिसम्बन्धिना पिष्टेन यद् विकटं भवति सा सुरा । यत्तु पिष्टवर्जितं द्राक्षाखजूरादिभिर्द्रव्यैर्निष्पाद्यते तद् मद्यं सौवीरकविकटं जानीयात् । एतद् द्विविधमपि यत्रोपनिक्षिप्त भवति तत्रोपाश्रये तिष्ठतां चतुर्लधुकाः । कस्य पुनरेतत् प्रायश्चित्तम् ? इत्याह-अगीतार्थस्य । 'सूत्रं तु' "कप्पइ एगरायं वा दुरायं वा वथए' इत्यादिलक्षणं गीतार्थविषयं मन्तव्यम् ।। इत ऊर्ध्वं “नस्थि अगीयत्यो वा०" इत्यादिकाः “कासइइच्छा समुप्पन्ना" इतिपर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः । अथ कीशी तस्येच्छा समुत्पन्ना? इत्याह[भा.३४०७] अनुभूआ मज्जरसा, नवरि मुत्तूनिमेसि मज्जनं ।
काहामि कोउहल्लं, पासुत्तेसुं समारद्धो॥ वृ-अनुभूता मया बहवो मद्यरसाः परममीषां मद्यानां रसान् मुक्त्वा, अतः 'करिष्यामि' पूरयिष्यामि कौतूहलमिति विचिन्त्य प्रसुप्तेषु शेषसाधुषु समारब्धोऽसौ तद्भाजनमुद्धाट्य विकटपानं कर्तुम् ।। ततश्च[भा.३४०८] इहरा कहासु सुणिभो, इमं खुतं काविसायणं मज्जं ।
पीते वि जायति सती, तञ्जसिताणं किमु अपीते ॥ वृ-'इतरथा' अद्यदिनात् पूर्वं कथास्वेव शृणुमः, परमिदं 'तत्' कथान्तरश्रुतं कापिशायनं नाम मद्यम् । एवं तद्-मद्य जुषितं-सेवितं यैस्ते तज्जुषिताः, गृहवासे विकटपायिन इत्यर्थः, तेषां पीतेऽपि विकटे स्मृतिरुपजायते, किं पुनरपीते ? ॥ [भा.३४०९] विगयम्मि कोउहल्ले, छट्ठवयविराधन त्ति पडिगमनं ।
वेहानस ओहाणे, गिलाणसेहेण वा दिह्रो ।। "मगतार्था । मा३४०] उड्डाहं व करिज्जा, विप्परिणामो व हुज्ज सेहस्स।
गिण्हंतेन व तेनं, खंडिय विद्धे व भित्रे वा ॥ भहस्तं संयतं विकटपानं कुर्वाणं दृष्ट्वा लोकस्य पुरत उड्डाहं कुर्यात्, विपरिणामो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org