________________
उद्देशक : २, मूलं - ५३, [भा. ३४०१]
इति पर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः ।।
मू. (५४) उवस्सयस्स अंतोवगडाए सुरावियडकुंभे वा सोवीरकवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथांण वा निग्गंधीण वा अहालंदमवि वत्थए। हुरत्था य उवस्सयं पडिलेहमाने नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए। जे तत्थ एगरायाओ वा दुरायाओ वा परं वसई से संतरा छेए वा परिहारे वा ।।
वृ- एवमुदकादिसूत्राण्यप्युच्चारणीयानि । अथामीषां कः सम्बन्धः ? इत्याह[मा. ३४०२] पगयं उवस्सएहिं, वाघाया तेसि होंति अन्नोन्ना । साहारण पत्तेगा, जा पिंडो एस संबंधो ॥
वृ- इहोपाश्रयैः 'प्रकृतम्' अधिकारो वर्त्तते । 'तेषां च ' उपाश्रयाणां 'व्याघाताः ' दोषाः 'अन्योऽन्ये' अपरापरे बीज - विकटोदकप्रतिबद्धतादयो भवन्ति । तेषु च यत्राल्पतरा दोषाः भवन्ति तत्र स्थातव्यम् इति ज्ञापनार्थं साधारणसूत्र - प्रत्येकसूत्राणामारम्भः क्रियते "जा पिंडो "त्ति “उवस्सयस्स अंतोवगडाए पिंडए वा लोयए वा०" इत्यादिकं वक्ष्यमाणं पिण्डसूत्रं यावद् एष सम्बन्धो मन्तव्यः । साधारणसूत्राणि नाम-यत्रैकसूत्रे द्व्यादिप्रभृतीनि बहूनि पदानि भवन्ति । प्रत्येकसूत्राणि तु यत्रैकसूत्रे एकमेव पदम् । ततश्चात्र विकटसूत्रमुदकसूत्रं पिण्डसूत्रमित्येतानि त्रीणि साधारणसूत्राणि, प्रदीपसूत्रं ज्योतिसूत्रं च प्रत्येकसूत्रे ।। एष पञ्चानामपि सूत्राणां सम्बन्धः सामान्यत उक्तः । अथ विशेषतः सम्बन्धमाह
[भा. ३४०३] सालुच्छूहि व कीरति, विगडं भुत्त तिसितोदयं पिबति । आहा रिमम्मि दोसा, जह तह पिज्जे वि जोगोऽयं ॥
२८९
वृ-शालिभिरिक्षुभिर्वा विकटं क्रियते, अतो धान्यसूत्रानन्तरमिदं विकटसूत्रमारभ्यते । शालिकूरादिकमाहारं भुक्त्वा तृषितो भवेत्, तृषितश्चोदकं पिबतीति उदकसूत्रं निरूपणीयम् । यद्वा 'आहारिमे' तिलादौ भुक्ते सति यथा दोषा भवन्ति तथा 'पेयेऽपि' मद्यादौ पीयमाने दोषा भवन्त्येवेति तप्रतिबद्धे प्रतिश्रयेऽपि न स्थातव्यमिति । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सुराविकटं पिष्टनिष्पन्नम्, सौवीरकविकटं तु पिष्टवर्जेर्गुडादिद्रव्यैर्निष्पन्नम् । ततः सुराविकटकुम्भोवा सौवीरकविकटकुम्भो वा यत्रोपाश्रयस्यान्तर्वगडायामुपनिक्षिप्तः स्यात् तत्र नो कल्ते निर्ग्रन्थानां वा निर्ग्रन्धीनां वा यथालन्दमपि कालं वस्तुम् । “हुरत्था य'त्ति देशीपदं बहिरर्थाभिधायकम्, शब्दो वाक्यभेदद्योतकः, ततोऽयमर्थः अथ बहिरन्योपाश्रयं प्रत्युपेक्षमाणोऽपि नो लभेत तत एवं "से" तस्य साधोः कल्पते एकरात्रं वा द्विरात्रं वा तत्र वस्तुम् । यस्तत्रैकरात्राद्वा द्विरात्राद्वा 'परम्' ऊर्ध्वं वसति "से" तस्य संयतस्य 'खान्तरात्' स्वस्वकृतं यदन्तरं - त्रिरात्रचतूरात्रादिकालावस्थानरूपं तस्मात् 'छेदो वा' पञ्चरात्रिन्दिवादि 'परिहारो वा' मासलघुकादिस्तपोविशेपो भवतीति सूत्रार्थः । अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह
[ भा. ३४०४ ] देसीभासाई कयं, जा बहिया सा भवे हुरत्था उ । बंधनुलोभेण कयं परिहारो होइ पुब्वं तु ।।
वृ- "हुरत्था” इति यत् पदं तद् देशीभाषया 'कृतं ' निबद्धं बहिरर्थाभिधायकम् । ततो या
19 19
Jain Education International
E
For Private & Personal Use Only
www.jainelibrary.org