________________
२८८
बृहत्कल्प-छेदसूत्रम् -२-२/५३ ते तत्थ सन्निविट्ठा, गहिता संथारगा जहिच्छाए।
नानादेसी साधू, कासइ इच्छा समुप्पन्ना ।। कीशी पुनरिच्छा तस्य समुद्भूता ? इत्युच्यते[भा.३३९७] अनुभूता धनरसा, नवरं मुत्तूण गंधसालीणं ।
काहामि कोउहल्लं, थेरीए परंधनं भणियं ॥ वृ-अनुभूतास्तावत् सर्वेषामपि धान्यानां रसाः, नवरं गन्धशालीनां रसं मुक्त्वा, तेऽद्यापि नास्वादिता इति भावः । अतः ‘करिष्यामि' पूरयिष्यामि कौतूहलमिति विचिन्त्य तेन कोष्ठपल्यादेः शालीनाकृष्य स्थविराया अग्रे 'प्ररन्धनं' 'पाकं कुरुष्व' इति वचो भणितम् ॥ इदमेव स्पष्टयति[भा.३३९८] इहरा कहासु सुणिमो, इमे हु ते कलमसालिणो सुरभी ।
थोवे वि नत्थि तित्ती, को य रसो अन्त्रमन्नाणं ॥ दृ- 'इतरथा' अद्यदिनात् पूर्वं वयं गन्धशालीन् ‘कथासु' वार्तान्तरेषु शृणुमः, इमे तु प्रत्यक्षमुपलभ्यमानाः 'ते' कथान्तरश्रुताः कलमशालयः सुरभयः, तथा स्तोकेऽप्यत्र कलमशालौ नास्ति तृप्तिः, कश्च ‘रसः' आस्वादोऽन्योऽन्यमिश्रितानाममीषाम् ? । इत्थं विचिन्त्य पल्यात् तान् शालीनाकृष्य स्थविरायाः समर्पयति । साऽप्युपस्कृत्य तस्य संयतस्य दत्त्वा शेषमात्मना भुङ्क्ते । ततोऽसौ लब्धास्वादो दिवसे दिवसे एवमेव विदधाति ॥ ततः किमभूद् ? इत्याह[भा.३३९९] निग्घोलियं च पलं, कज्जे सागारियस्स अतिगमनं ।
सागारिओ विसनो, भीतो पुन पासए कूरं ।। तृ-तेन संयतेनैवं शालीनपहरता तत् पल्यं निर्घोलितं रिक्तीकृतम्। ततः कचिदात्मीयकार्ये सागारिकस्य तत्र 'अतिगमन' प्रवेशोऽभवत् । ततः सागारिकः पल्यंरिक्तीकृत दृष्ट्वा 'विषन्नः' विषादमुपगतवान् । भीतश्च ‘मा स्तेनादयोऽत्र प्रविष्टा भवेयुः' इति शझ्या तत्र परिभ्रमन् शालिकरमानीतं पश्यति ॥ [भा.३४००] सो भणइ कओ लद्धो, एसो अम्हं खु लद्धिसंपन्नो ।
ओभावणं व कुज्जा, धिरत्यु ते एरिसो लाभो ॥ कृ-'सः' सागारिको भणति-कुत एष शालिकूरोलब्धः? । ततः साधवस्तदीयं वृत्तान्तमजानाना ब्रुवते-एष साधुरस्माकं लब्धिसम्पन्नोऽतः प्रतिदिनमीशं शालिकूरमानयति । ततः सागारिकस्तं साध्वाभासं ब्रूते-धिगस्तु मुण्ड ! तवेशं लाभं येन प्रतिदिवसं शालीनपहृत्यास्माकं पल्यं रिक्तीकृतमिति । अपभ्राजनां वाऽसौ लोकमध्ये कुर्यात्, यथा-स्तेनका अमी । अत्र च भद्रकप्रान्तकृता दोषा भवन्ति ॥ भद्रकस्तावदिदमभिदध्यात्[भा.३४०१]इहरह वि ताव अम्हं, भिक्खं व बलिं व गिण्हह न किंचि ।
इण्हि खु तारिओ मि, ठवेमि अन्ने वि जा धन्ने ।। उक्तार्था ।। यस्तु प्रान्तो भवति स ब्रूयात्-अहो! धर्मकञ्चुकप्रविष्टा अमी लोकं मुष्णन्तीत्यादि। अत्र- "लहुगा अनुग्गहम्मी, अप्पत्तिय धम्मकंचुए गुरुगा।" इत्यारभ्य
“सेज्जायरो पभणई, अन्नं धन्नं पुनो वि होहिइ ने । एसो अनुग्गहो मे, जा साहु न दुक्खविओ कोइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org