________________
उद्देशक ः २, मूलं-५२, [भा. ३३९२]
२८७ • वृ-शय्यातरः सूरीन भणति-भगवन् ! अस्माकमन्यदपि धान्यं पुनरपि भविष्यति, परमेष महाननुग्रहो मे संवृत्तः, यत् कोऽपि युष्मदीयः साधुः स्तेनैर्न दुःखापित इति ।।
मू. (५३)अह पुन एवं जाणिज्जा नो रासिकडाईनो पुंजकडाइं नो भित्तिकडाईनो कुलियकडाई कोडाउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणि वा मालाउत्ताणि वा ओलित्ताणि वा लित्ताणि वा पिहियाणि वा लंछियाणि वा मुद्दियाणि वा, कप्पइ निग्गंधाण वा निग्गंधीण वा वासावासं वत्थए।।
-अथ पुनरेवंजानीयात्-नो राशीकृतानि नो पुजीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि कोठागुप्तानि वा पल्यागुप्तानि वा मञ्चागुप्तानि वा मालागुप्तानि वा अवलिप्तानि वा लिप्तानि वा पिहितानि वा लाञ्छितानि वा मुद्रितानि वा । तत्र कोष्ठे-कुशूले आगुप्तानि-प्रक्षिप्य रक्षितानि कोष्ठागुप्तानि । एवमुत्तरत्रापि भावनीयम् । नवरं पल्यं-वंशकटकादिकृतो धान्याधारविशेषः, मञ्च-स्थूणानामुपरिस्थापितवंशकादिमयो लोकप्रसिद्धः, मालकः-गृहस्योपरितनो भागः, 'अवलिप्तानि नाम द्वारदेशे पिधानेन सह गोमयादिना कृतोपलेपानि, 'लिप्तानि' मृत्तिकया सर्वतः खरण्टितानि, 'पिहितानि' स्थगितानि, 'लाञ्छितानि' रेखा-ऽक्षरादिभिः कृतलाञ्छनानि, 'मुद्रितानि मृत्तिकादिमुद्रायुक्तानि । एवंविधेषु धान्येषु कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षावासं वस्तुमिति सूत्रार्थ ।। अथ भाष्यम्[भा.३३९३] कोट्ठाउत्ता य जहिं, पल्ले माले तधेव मंचे य ।
ओलित्त पिहिय मुद्दिय, एरिसए न कप्पती वासो !! वृ-यत्रोपाश्रये कोष्ठागुप्तानि पल्यागुप्तानि मालागुप्तानि मञ्चागुप्तानि अवलिप्तानि पिहितानि मुद्रितानि, उपलक्षणत्वा लिप्तानि लाञ्छितानि वा धान्यानि सम्भवन्ति, ईशे न कल्पते वासः । अथ सूत्रस्यैव विषमपदानि व्याचष्टे[भा.३३९४] छगणादी ओलिसा, लित्ता मट्टियकता उ ते चेव ।
कोट्ठियमादी पिहिता, लित्ता वा पल्ल-कडपल्ला ॥ [भा.३३९५] ओलिंपिऊण जहि अक्खरा कया लंछियं तयं बिंति।
जहियं मुद्दा पडिया, होति तगं मुद्दियं धन्नं ॥ कृ द्वारदेशे यानि छगणादिना लिप्तानि तान्यवलिप्तानि । याति तुमृत्तिकया कृतानि-खरण्टितानि तानि लिप्तानि । कोष्ठिकादीनि यानि द्वारदेशे स्थगितानि तानि पिहितानि । पल्यकटपल्यानि तु लिप्तानि भवन्ति । इह पल्यात् कटपल्यमुच्चतरंभवतीति विशेषः ।।अवलिप्य 'यत्र धान्येऽक्षराणि कृतानि तद् लाञ्छितमिति ब्रुवते । यत्र तु धान्ये मुद्रा पतिता तद् मुद्रितं भवति ।। [भा.३३९६] उडुबद्धम्मि अतीए, वासावासे उवहितै संते।
ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु ॥ -ऋतुबद्धे कालेऽतीतेवर्षावासे उपस्थिते सति यदि कोष्ठागुप्तादिधान्यकुक्तेप्रतिश्रये तिष्ठन्ति तदा चतुर्लघवः । कस्य पुनरेतत् प्रायश्चित्तम् ? । सूरिराह-अगीतार्थस्य 'सूत्रं तु' "कल्पते कोष्ठागुप्तादिधान्येषु वर्षावासे वस्तुम्' इतिलक्षणं गीतार्थविषयं मन्तव्यमिति वाक्यशेषः ॥ इत ऊर्ध्वम्- “नस्थि अगीयत्थो वा, गीतो वा कोऽपि वनिओ सुत्ते।" पादिका गाथाः पूर्वोक्ता एव तावदध्येतव्याः यावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org