________________
पीठिका - [भा. २९७]
भिधातुकाम आह[भा.२९८] मुत्तूण पढम-बीए, अक्खर-पय-पाय-बिंदु-मत्ताणं ।
सव्वेसि समोयारो, सट्टाणे चेव चरिमस्स ।। वृ-प्रथम-हीनाक्षरं द्वितीयम्-अधिकाक्षरम् एते द्वे पदे मुक्त्वा शेषाणां पञ्चानां घोषयुतवर्जानाम् अक्षर-पद-पाद-बिन्दु-मात्राणां समवतारः कर्तव्यः । यथा-व्यत्यानेडितं अधस्तनान्युपरि उपरितनन्यधोऽक्षर-पदादीनि यत् करोति । स्खलितं पञ्चभिरेव पदादिभिः । मिलितंयथासामायिकपदे दशवैकालिकोत्तराध्ययनप्रभृतीनामनेकानिपदानिमीलयति।अपरिपूर्ण पञ्चभिरेवाक्षरादिभिस्वगतैः । “सट्ठाणेचेव चरिमस्स" अधोषयुतं घोषैरेवापरिपूर्ण नाक्षरादिभिः।। साम्प्रतमेतेषु हीनाक्षरादिषु प्रायश्चित्तमाह. [भा.२९९] खलिय मिलिय वाइद्धं, हीनं अच्चक्खरं वयंतस्स ।
विच्चामेलिय अप्पडिपुन्ने घोसे य मासलहुं ॥ वृ-स्खलितंमिलितंव्याविद्धं हीनाक्षरमत्यक्षरं व्यत्यानेडितमपरिपूर्णघोषंच वदतःप्रत्येक प्रायश्चित्तं मासलघु। स्वामिन आज्ञाभङ्गे चतुर्गुरु, यथास तथाऽन्येऽपि करिष्यन्तीति चतुर्गुरु । यथोक्तकारीनभवतीति मिथ्यातवेचतुर्लघु । विराधना द्विविधा-आत्मविराधना संयमविराधना च।आत्मविराधना-देवतया छलनम् । संयमविराधना-कोऽपि साधुरियेत् ‘मा स्खलितादीनि कुरु' ततः कलहतोऽस्थिभङ्गाद्यात्मविराधनायां परिताप-महाग्लानाधारोपणा संयमविराधना । सूत्रस्यान्यथोच्चारणेऽर्थविसंवादः, अर्थविसंवादे चरणाभावः, चरणाभावे मोक्षाभाव इति दीक्षा निरर्थिका । लघुग्रहणाद् गुरुकमपि सूचितम्, ह्रस्वोक्त्या यथा दीर्घस्य सूचनम् । तत्र गुरुकमिति वा अनुद्धातीति वाकालकमिति वागुरुकस्यनामानि। लघुकमितिवाउद्घातितमिति वाशुक्लमिति वा लघुकस्य नामानि ॥
अत्र गुरु-लघुविशेषविस्तरपरिज्ञानार्थमाचार्यस्त्रिविधं प्रायश्चित्तं दर्शयति, तद्यथादानप्रायश्चित्तं तपःप्रायश्चित्तं कालप्रायश्चित्तंच। तत्र दानप्रायश्चित्तं गुरुकं लघुकंच। एवंतपःकालप्रायश्चित्ते अपि गुरु-लघुके प्रत्येकं वक्तव्ये। तत्र दानप्रायश्चित्तं गुरुकमाह[भा.३००] जंतु निरंतरदानं, जस्स व तस्स तवस्स तं गुरुगं ।
जंपुन संतरदानं, गुरू वि सो खलु भवे लहुओ।। वृ- यस्य वा तस्य वा तपसो गुरुकस्याष्टमादेरगुरुकसय निर्वृतिकादे (निर्विकृतिकादे] र्यनिरन्तरदानं तद्भवति दानप्रायश्चित्तं गुरु । यत् पुनः सान्तरमष्टमादेर्गुरुकस्य तपसो दानं तद् गुर्वपिखलु भवति लघु, यथा-आपत्तिश्चतुर्लघुकस्य षडलघुकस्य वातत्राष्टम् दशमानिसान्तराणि दीयन्ते । एष दानप्रायश्चित्ते गुरु-लघुकयोर्विशेषः ।। सम्प्रति तपः-कालयोराह[भा.३०१] काल-तवे आसज्जव, गुरू वि होइ लहुओ लहू गुरुगो ।
कालो गिम्हो उ गुरू, अट्ठाइ तवो लहू सेसो।। कृ-कालंतपश्चासाद्यगुपिलघुभवति, लघ्वपिच गुरुतत्रकालो ग्रीष्मोगुरु, तपोऽष्टमादि, शेषः कालस्तपश्च लघु । इयमत्र भावना-लघ्वपि य् अष्टमादिना तपसा उह्यते तत् तपोगुरु, यनिर्विकृतिकादिना षष्ठपर्यन्तेनोह्यते तत् तपोलघु; तथा यद् ग्रीष्मे काले उह्यते तत् कालगुरु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org