________________
७८
बृहत्कल्प-छेदसूत्रम् -१
[भा. २९६] विच्चामेलण अनुन्नसत्थपल्लवविमिस्स पयसो वा । तं चैव य हिदुवरिं, वायद्धे आवली नायं ॥
वृ- व्यत्याम्रेडितं नाम अन्यान्यशास्त्रपल्लवविमिश्रणम् । तत्र द्रव्यतो व्यत्याम्रेडिते पायसमुदाहरणम्-जहा कोलिया वइयं गया । तत्थ तेहिं 'परमन्नं रंधेमो' त्ति दुद्धं आद्रहितं । इत्थ जं जं छुमइ तं तं पायसो भवइ त्ति तंदुला चवला मुग्गा तिला कुक्कुसा छूढा । तं सव्वं विनट्टं अकिंचिकरं जायं ॥ एवमेव भावे सूत्रं व्यत्याम्रेडयति "सव्वभूयप्पभूयस्स, सम्मं भूयाई पासउ ।” अत्रेदमपि घटत इति कृत्वा चैवावधार्यताम् ।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चौवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
भावतो व्यत्याम्रेडितं सूत्रं कुर्वतोऽर्थस्य विसंवाद इत्यादि विभाषा प्रागिव यावद् दीक्षा निरर्थिका । तदेव च सूत्रमध उपरि व्यत्सासेन क्रियमाणं व्याविद्धम् । तच्च द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यव्याविद्धे आवली 'ज्ञातम्' उदाहरणम्- एगा आभीरी नगरं गया । तीसे वयंसिया वाणिगिणी । सा हारं पोएइ इयरी भणइ आनेहिं, अहं हारं पोएमि । ताए पणामिओ । इयरीए उप्परिवाडीए पोइओ | वाणिगिणी वक्खित्ता आसि । पच्छा ताए दद्धुं भणिया- हा पावे ! विनासिओ हारो, महद्दुष्कर्म कृतम् ॥ भावव्याविद्धमेवम्, यथा
अहिंसा संजमो तवो, धम्मो मंगलमुक्कई । जस्स धम्मे सया मणो, देवा वि तं नमसंति ॥
वृ एवं व्याविद्धे भावतोऽर्थस्य विसंवाद इत्यादि विभाषा पूर्ववद् यावद् दीक्षा निरर्थिका । तस्मादव्याविद्धमुच्चरितव्यम् । अधुना स्खलित-मिलिता ऽप्रतिपूर्णाऽघोषयुतानां व्याख्यानमाह[भा.२९७] खलिए पत्थरसीया, मिलिए मिस्साणि धन्नवावणया । मत्ता - बिंदु वन्ने, घोसाइ उदत्तमाईया ||
वृ- स्खलितं द्विधा द्रव्यतो भावतश्च । तत्र द्रव्ये 'प्रस्तरसीता' प्रस्तराकुलं क्षेत्रम्, तस्मिन् हि वाह्यमानानि हल - कुलिकादीनि उत्स्फिटय अन्यत्र निपतन्ति । एवं भावस्खलितं यदन्तराऽन्तरा आलापकान् मुञ्चति, यथा-धम्मो, अहिंसा, देवा वि तं नमसंति, पुप्फेसु भमरा जहा । पच्छित्तं तं चेव, दोसा य । मिलितमपि द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यतो मिलितं, बहूनां व्रीहि-यवादीनां धान्यानामेकत्र मिश्रीकृतानां वापनता-वापनम् । भावतो मिलितं यद् अन्यस्यान्यस्योद्देशकस्याध्यय नस्य वा आलापकानेकत्र मीलयति सर्वं जिनवचनमिति कृत्वा । यथा-"सव्वे पाणा पियाउगा " " सव्वजीवा वि इच्छंति, जीविउँ न मरिजिउं" इत्थ न नज्जइ किं कालियं उक्कालियं छेयसुयं वा ? । अत्र प्रायश्चित्तं दोषाश्च प्राग्वत् । परिपूर्णं द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यतः परिपूर्णो घटः । भावे परिपूर्णं मात्रादिभि मात्राभि आदिग्रहणात् पदैः बिन्दुभि वर्णै अक्षरैश्चापरिपूर्णे तदेव प्रायश्चित्तं दोषाश्च । मात्राभिरपरिपूर्णं यथा- “धम्म मंगलमक्कडं" । पदैरपरिपूर्णं यथा- “धम्मं उक्किहूं" इत्यादि । घोषा उदात्तादयः, तत्र उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः । उच्चैः शब्देन यथा-“उप्पन्ने इवा” इत्यादि । नीचैःशब्देन यथा-"जे भिक्खू हत्थकम्मं करेइ" इत्यादि । घोषैरयुक्तं कुर्वतस्तदेव प्रायश्चित्तं त एव च दोषाः ॥ सम्प्रति व्यत्याम्रेडितादीनां पञ्चानां प्रकारान्तरेणार्थम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org