________________
बृहत्कल्प-छेदसूत्रम् -१
वर्षारात्रे हेमन्ते वोह्यमानं काललघु ।। तदेवं यतः स्खलिताद्युच्चारणे प्रायश्चित्तमाज्ञाऽनवस्थामिथ्यात्व - विराधनाश्च दोषाः तस्मात् सूत्रं स्खलितादिदोषररहितमुच्चारणीयं पठनीयं च । एवं च पठितस्य सूत्रस्य व्याख्या कर्त्तव्या । तत्र व्याख्यालक्षणमाह
[भा. ३०२] संहिया य पयं चेव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥
वृ- संहिता १ पदं २ पदार्थं ३ पदविग्रहः ४ चालना ५ प्रसिद्धिश्च ६ । एवं 'षड्विधं' षटप्रकारं व्याख्यालक्षणं 'विद्धि जानीहि । तत्र संहितेति कोऽर्थः ? इत्याह - [भा. ३०३ ] सन्निकरिसो परो होइ संहिया संहिया व जं अत्था । लोगुत्तर लोगम्मिय, हवइ जहा धूमकेउ ति ॥
वृ- यो द्वयोर्बहूनां वा पदानां परः' अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेघाविनामर्थप्रदायी 'सन्निकर्ष' सम्पर्कः स संहिता । अथवा यद् अर्था संहिता एषा संहिता । सा द्विधा-लौकिकी लोकोत्तरा च । तत्र लौकिकी 'यथा धूमकेतुः' इति, यथा इति पदं धूम इति पदं केतुरिति पदम् ॥
८०
[भा. ३०४] तिपयं जह ओवम्मे, धूम अभिभवे केउउस्सए अत्थो । को सुत्ति अग्गि उत्ते, किंलक्खणो दहण- पयणाई ||
वृ- 'यथा धूमकेतुः' इति संहितासूत्रं त्रिपदम् । सम्प्रति पदार्थ उच्यते-यथेत्यौपम्ये, धूम इत्यभिभवे, "धूविघूनने" इति वचनात्, केतुरित्युच्छ्रये । एष पदार्थः धूमः केतुरस्येति धूमकेतुरिति पदविग्रहः । कोऽसौ ? इति चेत् अग्नि । एवमुक्ते पुनराह - किंलक्षण: ? । सूरिराह - 'दहनपचनादि' दहन-पचन-प्रकाशनसमर्थोऽर्चिष्मान् ।। अत्र चालनां प्रत्यवस्थानं चाह
[भा. ३०५ ] जइ एव सुत्त-सोवीरगाई वि होति अग्गिमक्खेवो । न वि ते अग्गि पइना, कसिणग्गिगुणत्रिओ हेऊ ॥
[भा. ३०६ ] दिट्टंतो घडगारो, न वि जे उक्खेवणाइ तक्कारी । जम्हा जहुत्तऊसमन्निओ निगमणं अग्गी ॥
वृ- यदि नाम दहन-पचनादिस्तर्हि शुक्ल-सौवीरकादयोऽपि दहन्ति, करीषादयोऽपि पचन्ति, खद्योत मणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽप्यग्निर्भवितुमर्हन्ति, एषः 'आक्षेप : ' चालना । अत्र प्रत्यवस्थानमाह-"नैव शुक्लादयोऽग्निर्भवन्ति' इति प्रतिज्ञा, 'कृत्स्नगुणसमन्वितत्वात्' इति हेतु:, ध्ष्टान्तो घटकारः, यथा हि घटकर्ता मृत्पिण्ड- दण्ड-चक्र- सूत्रोदक-प्रयत्नहेतुकस्य घटस्य कात्स्नर्येभिनिर्वर्तकः, अभिनिर्वृर्तकः, अभिनिर्वर्त्तकः । एवमत्रापि यो दहति पचति प्रकाशयति च यथास्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽग्निर्न शुक्लादय इति निगमनम् ॥ सम्प्रति लोकोत्तरे संहिताद्रीनि दर्शयति
[भा. ३०७] उत्तरिए जह दुमाई, तदत्थहेऊ अविग्गहो चेव । को पुन दुमुत्ति वृत्तो, भण्णइ पत्ताइउववेओ ।।
वृ- लोकोत्तरे "जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं " इति संहिता । अत्र पदानियथा इति द्रुम इति पुष्पेष्विति भ्रमर इति आपिबतीति रसमिति । अधुना पदार्थ उच्यते- 'यथा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org