________________
२८२
बृहत्कल्प-छेदसूत्रम् - २-२ / ५२
[भा. ३३६२] निक्कारणम्मि दोसा, पडिबद्धे कारणम्मि निद्दोसा । ते चेव अजताए, पुनो वि सो लग्गती दोसे ॥
वृ- धान्यप्रतिबद्धे गृहे निष्कारणे तिष्ठतामेते दोषा मन्तव्याः । कारणे तु यतनया तिष्ठन्तो निर्दोषाः । अथ कारणे स्थितो यतनीं न करोति तदा 'तानेव' पूर्वोक्तान् दोषान् 'लगति' प्राप्नोति । किं पुनस्तत् कारणम् ? इत्याह
[भा. ३३६३] अद्धाणनिग्गतादी, तिक्खुत्तो मग्गिऊण असतीए । गीतत्था जताए, वसंत तो धन्नसालाए ।
अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् विशुद्धां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति तदा गीतार्था यतनया धान्यशालायां वसन्ति ।। तामेव यतनामाहतुस - धन्नाइं जहियं, निप्परिसाड-परिसाडगाईं वा । तेसु पढमं तु ठायति, तेसऽसती दंतखजेसु ।।
[भा. ३३६४ ]
वृ-येषूपाश्रयेषु तुषधान्यानि ' व्रीहियवादीनि निष्परिशाटीनि परिशाटीनि वा भवन्ति तेषु प्रथमतस्तिष्ठन्ति । तषामभावे यत्र 'दन्तखाद्यानि' तिलादीनि धान्यानि तत्र तिष्ठन्ति ।। तिष्ठतां च यदि वसतिस्वामी ब्रूयात् यद्यस्माकम् अस्मद्बालकानां वा ज्योतिषादिकमक्षरादिविज्ञानं वा कथयिष्यथ गृहादिकं वा रक्षिष्यथ ततो वसतिं प्रयच्छाम इति । तत्र साधुभिर्वक्तव्यम्[भा. ३३६५] न वि जोइसं न गणियं, न अक्खरे न वि य किंचि रक्खामो । अप्पस्सा असुणगा, भातणखंभोवमा वसिमो ||
- वयं नापि ज्योतिषं न गणितं नाक्षराणि वा शिक्षयामो न वा जानीमः, नापि च किञ्चिद् गृहादिकं रक्षामः, किन्तु भाजनस्तम्भोपमा वसामः । यथा भवतां भाजन-स्तम्भ - कुड्यादीनि सौस्थ्यदौः स्थ्यव्यापारं न वहन्ति, एवं वयमपि भवद्भिर्मन्तव्याः । अत एव भवदूहे कस्यापि कार्यस्य विपत्तिं पश्यन्तोऽप्यपश्यकाः । यदा च कोऽपि ब्रूयात्-इदं शय्यातरस्य कथयत तदा वयं शृण्वन्तोऽप्यश्रोतारो मन्तव्याः । यदेयवमभ्युपगच्छति तदा स्थातव्यम् । अत एवाह
[भा. ३३६६ ] निक्कारणम्मि एवं, कारणे दुलभे भणंतिमं वसभा । अम्हे ठितेल्लग चिय, अधापवत्तं वहह तुब्भे ॥
वृ- ‘निष्कारणे' कारणाभावे एवं तिष्ठन्ति । अधाशिवादौ कारणे शुद्धा वसतिर्दुर्लभा ततो धान्यशालायां तिष्ठन्त इत्यं साधारणवचनं वृषभा भणन्ति - वयं तावदत्र स्थिता एव यूयमपि यथाप्रवृत्तं दिवसदैवसिकं व्यापारं वहथैव ।। गता अनुज्ञापनायतना । अथ स्वपक्षयतनामाह[भा. ३२६७] आमं ति अब्भुवगते, भिक्ख-वियारादि निग्गत मिएसु । भणति गुरु सागारिय, नाउं जे कत्थ किं धन्नं ॥
वृ- 'आमम्' इत्यनुमतार्थद्योतकमव्ययम् । यदि सागारिकेणानुमतम्-मम निष्प्रत्युपकारिणो भूत्वा यूयं तिष्ठत; ततस्तत्र स्थातव्यम् । स्थितानां च तत्रायं विधि-यदा सर्वेऽपि मृगाः-अगीतार्था भिक्षायां विचारभूम्यादौ वा निर्गता भवन्ति तदा 'गुरु' आचार्य सागारिकमन्यव्यपदेशेन भणति । किमर्थम् ? इत्याह-कुत्र किं धान्यं वर्त्तते ? इति ज्ञातुम् । “जे" इति पादपूरणे ॥
[ भा. ३३६८ ] सालीणं वीहीणं, तिल-कुलत्थाण मुग्ग-मासाणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org