________________
२८१
उद्देशकः २, मूलं-५२, [भा. ३३५५] समायाताः सन्ति अतस्तूष्णीकास्तिष्ठथ । न कल्पते साधूनामेवमाख्यातुम्-अयं स्तेनः, अयं चोपचरक इति । अथवा संयतैः ‘स्तेना आयाताः सन्ति' इत्युक्ते स्तेना ब्रुवते- संयताः ! तूष्णीकास्तिष्ठथ, अन्यथा युष्मानपद्रावयिष्यामः ॥ एवमुक्त्वा तैः किं कृतम् ? इत्याह[भा.३३५६] गहियं च नेहि धनं, घेत्तूण गता जहिं सि गंतव्वं ।
सागारिओ य भणती, सउणी वि य रक्खए नेहुं ।। वृ- गृहीतं च 'तैः' स्तेनकैान्यम्, गृहीत्वा च ते गतास्तत्र स्वस्थाने यत्र तेषां गन्तव्यम् । सागारिकश्चात्मीयकार्येण प्रभाते समागतो मुद्राभेदं दृष्ट्वा भणति-भगवन् ! 'शकुनिकाऽपि' पक्षिण्यपि तावदात्मनः 'नीडम्' आश्रयं रक्षति, भवद्भि पुनरेतदपि न रक्षितमिति भावः॥ [भा.३३५७] रासी ऊने दर्दु, सब् नीतं व धनखेरिं वा ।
केन इमं तेनेहिं, असिढे भद्देतर इमं तु ।। वृ-स सागारिकस्तत्र धान्यराशीन् ‘ऊनान्' तुच्छान् दृष्ट्वा, सर्वं वा धान्यं नीतम्' अपहृतं विलोक्य, यद्वा धान्यस्य खेरि-परिशाटिं दृष्ट्वा पृच्छति-केनेदमपहृतम् ? । साधवो ब्रुवते-स्तेनैः। स भूयः पृच्छति-के पुनः स्तेनाः ? । ततो यदि नाम्ना वर्णेन वयसा वा निर्दिश्य कथयन्ति ततः स्तेनानां ग्रहणा-ऽऽकर्षणादयो दोषाः । 'अशिष्टे' अकथिते 'एतैरेव हृतम्' इति शङ्का स्यात् तत्र भद्रकेतरदोषा भवन्ति । यद्यसौ सागारिको भद्रकस्तदा अनुग्रहं मन्येत । अथ ‘इतरः' प्रान्तस्ततोऽप्रीतिकादयो दोषाः ।। तेषु च भद्रक-प्रान्तदोषेष्विदं प्रायश्चित्तम्[मा.३३५८] लहुगा अनुग्गहम्मिं, गुरुगा अप्पत्तियम्मि कायव्वा ।
कडुग-फरुसं भयंते, छम्मासा करभरे छेदो ॥ [भा.३३५९] मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्के य ।
रच्छा-महापहेसु य, पावति पारंचियं ठाणं ॥ -गाथाद्वयस्य व्याख्या प्राग्वत् [भा.३३६०] एगमनेगे छेदो, दिय रातो विनास-गरहमादीया।
जं पाविहिंति विहनिग्गतादि वसधिं अलभमाणा ।। वृ-सागारिकः प्रद्विष्टः सन् एकेषां तेषामेव अनेकेषां वा-सर्वसाधूनाम्, यद्वा एकस्य-तद्रव्यस्य अनेकेषां वा-तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदं विदध्यात् । अथवा दिवा निष्काशयति चतुर्लघु, रात्रौ निष्काशयति चतुर्गुरु । निष्काशिताश्च स्तेन-श्वापदादिभिर्विनाशं लोकाद्वा गर्हामासादयन्ति, "एते स्तेनाः' इति कृत्वा निष्काशिताः, आदिग्रहणेन ग्रहणा-ऽऽकर्षणादयो दोषाः । यच्च विधंअध्वा ततो निर्गता आदिशब्दादशिवादिनिर्गता वा तदीयदोषेण वसतिमलभमाना आत्मविराधनादिकं प्रास्यन्ति तनिष्पन्नम् । एतेऽगीतार्थानां दोषा उक्ताः । अथ गीतार्थानधिकृत्य विधिमाह[भा.३३६१] गीयत्थेसु वि एवं, निक्कारण कारणे अजतणाए।
कारणे कडजोगिस्सा, कप्पति तिविहाए जतणाए ।। वृ-गीतार्था अपि यदि निष्कारणे धान्यशालायां तिष्ठन्ति, कारणे वा स्थिता यतनां न कुर्वन्ति ततस्तेष्वप्येवमेव दोषाः । अथ ‘कृतयोगी' गीतार्थ कारणे तिष्ठति तदा तस्य 'त्रिविधया यतनया' अनुज्ञापनादिविषयया वक्ष्यमाणया त स्थातुं कल्पते ।। इदमेव स्पष्टतरमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org