________________
२८०
बृहत्कल्प-छेदसूत्रम् -२-२/५२
करो वोढव्यः सातः ॥एषा स्वपक्षविषया अयतनाऽभिहिता ।अथ परपक्षविषयामयतनामाह[भा.३३५१] परपक्खम्मि अजयणा, दारे उ अवंगुतम्मि चउलहुगा।
पिहणे वि होति लहुगा, जंते तसपाणघातो य ॥ वृ- मनुष्य-गवादयो येऽसंयतास्ते परपक्षः तद्विषया अयतना भाव्यते-इह कोलिकादिजीवविराधनाभयाद् यदि द्वारमपावृतं करोति-न स्थगयतीत्यर्थः ततश्चतुर्लघवः । अथ द्वारस्य पिधानं कुर्वन्ति तदापिचतुर्लधवः । यन्त्रे चचुइआरकाख्ये सञ्चारिमानामुद्देहिकादीनां त्रसप्राणिनां घातो भवतीति तनिष्पन्नं प्रायश्चित्तम् ।। [भा.३३५२] गोणे य साणमादी, वारण लहुगा यजं च अधिकरणं ।
खरए तेनए या, गुरुगा य पदोसओ जं च ।। वृ-अपिहिते द्वारे गौः प्रविष्टो धान्यं भक्षयेत्, श्वानो वा आदिशब्दाद् मार्जारो वा प्रविश्य धान्यं विकिरेत् खादेद्वा, ते च यदि वार्यन्ते तदा चतुर्लघवः । ते च वारिताः प्रतिनिवृत्य व्रजन्तो हरितमर्दनादिरूपं यदधिकरणं कुर्वन्ति तनिष्पन्नम्। चशब्दादन्तरायं च तेषां कृतं भवति । तथ शय्यातरस्य यद् ब्यक्षरकं-दास-दासीरूपं ये च स्तेनकास्ते धान्यं हर्तुकामा यदि वार्यन्ते तदा चतुर्गुरुकाः। ते च वारिताः प्रद्वेषतो यदभ्याख्यान-परितापनादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् . [भा.३३५३] तेसि अवारणे लहुगा, गोसे सागारियस्स सिम्मि। .
लहुगा यजं च जत्तो, असिढे संकापदं जं च ॥ वृ.अथैतदोषभयात् 'तेषां' व्यक्षरकादीनां वारणं न करोति तदा चतुर्लघवः । ते चावारिताः सन्तः प्रविश्य धान्यं भक्षयेयुरपहरेयुर्वा ततो यदि 'गोसे' प्रत्यूषे सागारिकस्य कथयन्ति यथा 'अमुकेनामुकेन च रात्रौ धान्यमपहृतम्' ततश्चतुर्लघुकाः । शिष्टे' कथिते सति स रुष्टः सन् यद् द्व्यक्षरकादीनां परितापनादि ‘यतः' बन्धन-घातनविशेषतः करिष्यति तनिष्पन्न प्रायश्चित्तम् । अथ न कथयन्ति ततोऽपि चतुर्लघुकाः । यच्च साधूनामुपरि शङ्कापदं शय्यातरः करोति'नूनमेतैरपहृतं यदेवं न कथयन्ति' तत्र चतुर्लधु । निशङ्किते चतुर्गुरु ।।
गवादीनां वारणे दोषानुपदर्शयति[भा.३३५४] तिरियनिवारण अभिहनन मारणं जीवघातो नासते।
खरिया छोभ विसाऽगणि, खरए पंतावणादीया। वृ-गवादीनां तिरश्चां निवारणे शृङ्गादिना संयतानामभिधातो मारणं वा भवेत् । ते च निवारिता नश्यन्त जीवघातं कुर्युः । द्व्यक्षरिका च निवारिता संयताना 'छोभम्' अभ्याख्यानं दद्यात्-एष श्रमणो मां प्रार्थयते; विषं वा दद्यात्, वसति वाऽग्निना प्रज्वालयेत् । ढ्यक्षरको वा प्रद्विष्टः प्रान्तापनादिकं कुर्यात् ।। अथ स्तेनका येन कारणेन धान्यमपहरन्ति तत् प्रतिपादयति[भा.३३५५] आसन्नो य छनूसवो, कज्जं पि य तारिसेण धन्नेणं ।
. तेनाण य आगमनं, अच्छह तुण्हिक्कका तेना ।। वृक्षणः-एकदैवसिकः, उत्सवः-बहुदैवसिकः, क्षणयुक्त उत्सवः क्षणोत्सवः, शाकपाथि'वादिवद् मध्यपदलोपी समासः, क्षण उत्सवो वा इत्यर्थः । स स्तेनानां प्रत्यासत्रो वर्तते, तत्र च तेषां ताशेन धान्येन कार्यमस्ति ततः स्तेनानामागमनम्, ततश्चागीतार्था भणन्ति-भदन्त! स्तेनाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org