________________
२७९
उद्देशक ः २, मूलं-५२, [भा. ३३४५] [भा.३३४५] उड्डाहं व करेजा, विप्परिणामो व होज्ज सेहस्स।
गेण्हतेन व तेनं, सव्वो पुंजो समारद्धो॥ इस शैक्षस्तं तिलान् भक्षयन्तं विलोक्यापरापरजनेभ्यः कथयत्रुड्डाहं वा कुर्यात्, विपरिणामो वा शैक्षस्य भवेत्, विपरिणतश्च सम्यक्त्वं चारित्रं लिङ्ग वा परित्यजेत् । तेन च साधुना 'गृह्णता' भक्षयता सर्वोऽपि तिलपुञ्जः खादितुं समारब्धः ॥ ततश्च[भा.३३४६] फेडिय मुद्दा तेनं, कज्जे सागारियस्स अतिगमनं ।
केन इमं तेनेहि, तेनाणं आगमो कत्तो॥ कृ-तिलपुअस्य या छगणपानीयादिना मुद्रा कृताऽऽसीत् सा 'तेन तिलान् भक्षयता 'स्फेटिता' अपनीता। तत्र च क्वचित् कार्ये 'सागारिकस्य' शय्यातरस्य 'अतिगमन' प्रवेशो भवेत् । दृष्टश्च तेन खण्डितस्तिलपुञ्जः । ततः पृष्टाः-केनेदं धान्यं विलुप्तम् ? । साधवो भणन्ति-स्तेनैः । सागारिकः प्राह-स्तेनानामागमः कुतो नामास्मद्गृहे सातो येनास्माभिर्न ज्ञातः ? इति । ततः सागारिकेण चेतसि निश्चितम्-नूनमेतैरेव भक्षितमिदं धान्यमिति । स च भद्रको वा स्यात् प्रान्तो वा । भद्रकस्तावदिदं ब्रूयात्[भा.३३४७] इहरा वि ताव अम्हं, भिक्खं व बलिं व गिण्हह न किंचि ।
एण्हि खु तारितो मी, गिण्हह छंदेन जा अट्टो ।। वृ- इतरथाऽपि तावदस्माकं गृहे भिक्षां वा 'बलिं वा' देवतानिवेदनमुद्वरितं गृह्णीय, अत इदानीं संसारसागरात् तारतोऽसम्यहम्, अन्येनापि येन भवताम् 'अर्थ' प्रयोजनं तद् भगवन्तः 'छन्देन' स्वेच्छया गृह्णीध्वम् ।। [भा.३३४८] लहुगा अनुग्गहम्मी, अप्पत्तिग धम्मकंचुए गुरुगा ।
कडुग-फरुसं भणंते, छम्मासा करभरे छेदो॥ वृ-यद्येवं भद्रकोऽनुग्रहं मन्यते तदा चतुर्लघवः ।अथ प्रान्तोऽसौ ततोऽप्रीतिकं कुर्यात्-एते धर्मकञ्चुकप्रविष्टा लोकं मुष्णन्ति; एवमप्रीतिके चतुर्गुरवः । अथासौ 'कटुक-परुष' 'चौरस्त्वम्, धिग् मुण्ड !, दुरात्मन् !' इत्यादि वचनं भणति तदा षड्गुरवः । अथैवं ब्रूयात्-अहो ! राजकरभरभग्नैरस्माभिरिदानीं श्रमणकरो वोढव्यः; तदा छेदः प्रायश्चित्तम् ।। [भा.३३४९] मूलं सएज्झएसुं, अनवटुप्पो तिए चउक्के य ।
रच्छा-महापथेसु य, पावति पारंचियं ठाणं ।। वृ- सइज्झका नाम-सहवासिनः, प्रातिवेश्मिका इत्यर्थः, तैः परिज्ञातम् यथा-श्रमणैर्धान्यं स्तैन्येन भक्षितम्। ततो मूलम् । अथ त्रिके चतुष्के व साधूनां स्तेनवादः प्रसरमुपगतः ततोऽनवस्थाप्यम् । अथ रथ्यासु महापथेषु वा स्तैन्यापयशः समुच्छलितं ततः पाराञ्चिकं स्थानमाचार्यादि प्राप्नोति ॥ अथ कटुक-परुष-करभरपदानि व्याचष्टे[भा.३३५०] चोरु त्ति कडुय दुब्बोडितो त्ति फरुसं हतो सि पवावी !।
समणकरो वोढव्यो, जातो ने करभरहताणं ।। वृ- 'चौरस्त्वम्' इत्यादि वचनं कटुकम् । यत्तु 'दुर्मुण्डः' इति वा ‘हतोऽसि प्रव्रजित !' इति वा वचनं तत् परुष मन्तव्यम् । तथा स शय्यातरोब्रूयात्-अस्माकं करभरहतानां सम्प्रति श्रमणानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org