SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-२/५१ प्रवसति । प्रोषिते च तस्मिन् गृह एव वा निश्चिन्ततया धान्यानां व्यापारमवहमाने तेषामपि संयतानां प्रीतिकं भवति-साधु साधु सागारिकवर्जितं जातम् || अस्या एव गाथायाः पूर्वार्द्धं व्याचष्टे[भा. ३३३९] तेसु ठिएसु पउत्थो, अच्छंतो वा वि न वहती तत्तिं । जति वियपविसितुकामो, तह वि य न चएति अतिगंतुं । वृ- 'तेषु' संयतेषु तत्र स्थितेषु स सागारिको निश्चिन्ततया प्रोषितो गृहे वा तिष्ठन् धान्यानां 'तप्तिं' व्यापारं न वहति । यद्वा धान्यं सम्भालयितुं यद्यप्यसौ तत्र प्रवेष्टुकामः तथापि 'नातिगन्तुं' न प्रवेष्टुं शक्नोति ॥ कुतः ? इति चेद् उच्यते [भा. ३३४०] संधारएहि य तहिं, समंततो आतिकिन्न विइकिन्नं । सागारितो न एती, दोसे य तहिं न जाणाती ॥ २७८ वृ- संस्तारकैः 'तत्र' उपाश्रये समन्ततः 'अतिकीर्ण' परिपाट्या प्रसृतैर्मालितं 'व्यतिकीर्णं' तैरेवानानुपूर्व्या प्रसृतैव्यार्पतं दृष्ट्वा सागारिकः 'नैति' नागच्छति, ततो ये तत्र धान्यपरिशटनादयो दोषास्तानसौ न जानीते ॥ गता अनुज्ञापनाया अयतना । अथ संयतलक्षणस्वपक्षविषयां यतनामाह[मा. ३३४१] ते तत्थ सन्निविष्ट्ठा, गहिया संधारगा जधिच्छाए । नानादेसी साधू, कासइ चिंता समुप्पन्ना ॥ वृ- 'ते' अगीतार्था 'तत्र' उपाश्रये 'सन्निविष्टाः स्थिताः, यच्छया च तैस्तत्र संस्तारका गृहीताः, न गणावच्छेदिकेन यथारत्नाधिकं प्रदत्ता इति भावः, नानादेशीयाश्च तत्र साधवः, तेषां मध्ये “कासइ "त्ति कस्यचिद् मन्दधर्मणश्चिन्ता समुत्पन्ना ।। यथा [भा. ३३४२ ] अनुया धन्नरसा, नवरं मोत्तूण सेडगतिलाणं । काहामि कोउल्लं, पासुत्तेसुं समारद्धो || वृ- अनुभूतास्तावदपरेषां धान्यानां रसाः, 'नवरं' केवलं "सेडगतिलाणं "ति श्वेतकतिलानां रसं मुक्त्वा, अत एतद्विषयं 'कौतुकम्' अभिलाषं 'करिष्यामि' पूरयिष्यामीत्यर्थः । एवं विचिन्त्य शेषसाधुषु रात्री प्रसुप्तेषु समारब्धस्तान् तिलान् भक्षयितुम् । ततश्च [भा. ३३४३] विगयम्मि कोउहल्ले, छट्टवतविराधन त्ति पडिगमनं । वेहानस ओहाणे, गिलाण सेधेण वा दिट्ठो ॥ वृ- 'विगते' व्यतीते सति कौतुके 'षष्ठव्रतस्य विराधना ममाभूत्, एकव्रतभङ्गे च सर्वव्रतभङ्गः' इति कृत्वा 'प्रतिगमनं' भूयोऽपि गृहवासाश्रयणं कुर्यात्, वैहायसं वा मरणमभ्युपगच्छेत्, 'अवधावनं वा' संविग्नविहारं कुर्वीत, पार्श्वस्थादिविहारमाद्रियेत इत्यर्थः । अथवा स संयतस्तिलभक्षणं विदधानो ग्लानेन वा शैक्षेण वा दृष्टो भवेत् । ततश्च [भा. ३३४४] दट्टूण वा गिलाणो, खुधितो भुंजेज्ज जा विराधनत । एव सेधमादी, भुंजे अप्पच्चयो वा सिं ॥। वृ- तं साधुं तिलान् भक्षयन्तं दृष्ट्वा ग्लानः क्षुधितः सन् तांस्तिलान् भुञ्जीत्, ततश्चापध्यप्रतिसेवनेन या तस्य परितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव शैक्षादयोऽपि तं तिलान् भुञ्जनं दृष्ट्वा तथैव भुञ्जीरन्, अप्रत्ययो वा तेषां भवेत् यथैतद् मृषा तथाऽन्यदप्यमीषामेवंविधमिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy