________________
२७७
उद्देशकः २, मूलं-५२, [भा. ३३३३] [भा.३३३३] निउणो खलु सुत्तत्थो, न हु सक्को उपडिबोधितो नाउं।
ते सुणह तत्थ दोसा, जे तेसिं तहि वसंताणं ॥ वृ- 'निपुणः' सूक्ष्मः खलु सूत्रस्यार्थो भवति, अत एव न शक्योऽसवाचार्येणाप्रतिबोधितः सम्यक् परिज्ञातुम् अतोऽगीतार्थ सूत्रमात्रेण पठितेन न यतनामवबुध्यते, अतः 'तेषाम्' अगीतार्थानां 'तत्र' बीजाकीर्णोपाश्रये वसतां ये दोषा भवन्ति तान् शृणुत ।। [भा.३३३४] अगीयत्था खलु साहू, नवरि दोसे गुणे अजाणता ।
रमणिज्जभिक्ख गामो, ठायंतऽह धन्नसालाए । वृ-अगीतार्थाः खलु, के ? 'साधवः' साधुक्रियासु उद्यताः “नवर केवलं सदोषाया निर्दोषाया वा वसतेरनुज्ञापने दोषान् गुणांश्चाजानन्तः क्वापि ग्रामे भैक्षं प्रभूतं लब्ध्वा भिक्षया 'रमणीयोऽयं ग्रामः' इति कृत्वा 'अथ' अनन्तरं धान्यशालायां तिष्ठन्ति ॥ इदमेव स्पष्टतरमाह[भा.३३३५] रमणिज्जभिक्ख गामो, ठायामो इहेव वसहि झोसेह ।
धन्नधराणुनवणा, जति रक्खह देमु तो भंते ! ॥ वृ-कश्चिदगीतार्थगच्छो ग्रामानुग्रामिकं विहरन् कमपि ग्रामं सम्प्राप्तः । तत्र बहिर्देवकुलादौ स्थित्वा भिक्षां पर्यटन प्रभूतम् इष्टं च भैक्षं लब्धवान् । ततस्तैः साधुभि परस्परमुक्तम्-रमणीयोऽयं ग्रामः अत इहैव मासकल्पं तिष्ठामः, परं वसतिरद्यापि न गवेषिता अतस्तां “झोसेह''त्ति देशीवचनत्वाद् गवेषयत । ततस्तैर्वसतिं प्रत्युपेक्षमाणैः कस्याप्यगारिणो धान्यगृहं दृष्टम्, ततस्तस्यानुज्ञापना कृता । गृहपति प्राह-यदि भदन्त ! मदीयं धान्यगृहं तस्कर-गवादिभिरुपद्यमाणं • रक्षत ततोऽहं प्रयच्छामि नान्यथा । अपि च--- [भा.३३३६] वसहीरखणदग्गा, कम्मं न करेमो नेव पवसामो ।
निच्चिंतो होहि तुमं, अम्हे रत्तिं पि जग्गामो || वृ.वयमस्या वसतेः-धान्यशालारूपाया रक्षणे व्यग्राः सन्तः कृप्यादिकं कर्मापि न कुर्महे, न च सुहृदादिभिरामन्त्रिताः क्वापि विवाहादी कार्ये ग्रामान्तरे प्रवसामः । ततस्तेऽगीतार्था वसत्यनुज्ञापनाविधिमजानन्तो ब्रुवते निश्चिन्तस्त्वमत्रार्थे भव, वयं रात्रिमपि प्रहरकेण जागरिष्यामः।। [भा.३३३७] जोतिस-निमित्तमादी, छंदं गणियं व अम्ह साधेत्था।
अक्खरमादी डिंभे, गाधेस्सह अजतणा सुणणे ।। वृ-ज्योतिष निमित्तम् आदिशब्दादन्यदपि गन्धर्वविद्यादिकं तथा छन्दःशास्त्रं गणितशास्त्रं वा यद्यस्माकं कथयिष्यथ, अक्षराणि नाम-लिपिविज्ञानं तद् आदिशब्दाद् व्याकरणादिकं वा यद्यस्माकं 'डिम्भानि' बालकानि ग्राहयिष्यथ ततस्तिष्ठन्तु भवन्त इति । एवं वसतिस्वामिनोक्ते सति यदि तेऽगीतार्थास्तत् प्रतिशृण्वन्ति' ‘आमम्, कथयिष्यामो ग्राहयिष्यामो वा' इत्यनुमन्यन्ते ततोऽनुज्ञापनाया अयतना कृता भवति ।। तत्र चामी दोषाः[भा.३३३८] अनुन्नवण अजतणाए, पउत्थ सागारिए घरे चेव ।
तेसि पि य चीयत्तं, सागारियवञ्जियं जातं ।। वृ-एवमयतनानुज्ञापनया तत्र तेषु स्थितेषु सागारिकश्चिन्तयति- एते साधवस्तावद् मदीयं धान्यगृहं रक्षन्ति अतः कस्मादहं स्वजनादिकार्ये न गच्छामि ?' इति परिभाव्य कुत्रचिद् ग्रामादौ
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only