________________
२७६
बृहत्कल्प-छेदसूत्रम् -२-२/५२
प्राप्नोति, तथा नापि च 'इदं कल्प्यम्, इदमकल्प्यम्' इति व्यवस्था भवति, यदि चैवमपि ब्रुवतस्तवाभिप्रेतार्थसिद्धिर्भवति तर्हि कस्य न सा भवेत् ? चरक-परिव्राजकादीनामप्यसमअस प्रलापिनां सा भविष्यतीति भावः ।। सूरिराह[भा.३३३०] न वि किंचि अनुन्नायं, पडिसिद्धं वा वि जिनवरिदेहि ।
एसा तेसिं आणा, कजे सच्चेण होतव्वं ।। वृ. हे नोदक ! यदेतद् भवता प्रलपितं तत् प्रवचनरहस्यानभिज्ञतासूचकम्, यतो जिनवरेन्द्रैस्तथाविधकारणाभावे नापि किञ्चिद्' अकल्पनीयमनुज्ञातम्, कारणे च समुत्पत्रे नापि किञ्चित्प्रतिषिद्धम्, किन्तुएषा तेषां तीर्थकृतां निश्चय-व्यवहारनयद्वयाश्रिता सम्यगाज्ञामन्तव्यायदुत 'कार्ये' ज्ञानादावालम्बने 'सत्येन' सद्भावसारेण साधुना भवितव्यम्, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः । अथवा सत्यं नाम-संयमः तेन कार्ये समुत्पन्ने भवितव्यम्, यथा यथा संयम उत्सर्पति तथा तथा कर्तव्यमिति भावः । आह च बृहद्भाष्यकारः
कजं नाणादीयं, सञ्चं पुन होइ संजमो नियमा।
जह जह सो होइ थिरो, तह तह कायव्वयं होइ ।। इदमेव भावयति[भा.३३३१] दोसा जेन निरुज्मंति जेन खिज्जति पुवकम्माई।
सो सो मोक्खोवाओ, रोगावस्थासु समणं वा । वृ- 'येन' अनुष्ठानविशेषेण 'दोषाः' रागादयो निरुध्यन्ते, पूर्वोपचितानि च कर्माणि येन क्षीयन्ते, ‘स सः' अनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः । 'रोगावस्थासु' ज्वरादिरोगप्रकारेषु 'शमनमिव' उचितौषधप्रदानापथ्यपरिहाराधनुष्ठानमिव; यथा तेन विधीयमानेन ज्वरांदिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादेऽपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि चक्षीयन्ते। अथवा यथा कस्यापि रोगिणः पथ्यौषधादिकंप्रतिषिध्यते कस्यापि पुनस्तदेवानुज्ञायते, एवगत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिध्यतेऽसमर्थस्यतुतदेवानुज्ञायते। उक्तञ्च भिषग्वरशास्त्रे
उत्पद्येत हि साऽवस्था, देश-काला-5ऽमयान् प्रति ।
यस्यामकार्य कार्यं स्यात, कर्म कार्यं च वर्जयेत्॥ एवंविधं चोत्सर्गा-ऽपवादविभागमगीतार्थो न जानाति ।। अतः[भा.३३३२] अग्गीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ ।
अनुन्नवणाए जयणं, सपक्ख-परपक्खजयणं च ॥ वृ-अगीतार्थसय प्रस्तुतसूत्रविषयभूतं वस्तुंन कल्पते, यतोऽसौ त्रिविधां यतनां न जानीते। तद्यथा-अनुज्ञापनायतनां स्वपक्षयतनां परपक्षयतनां चेति । तिखऽप्येता वक्ष्यमाणस्वरूपाः । परः प्राह-अगीतार्थेनापि तावत् सूत्रमधीतम् अतः कथमस न जानीते ? उच्यते-इह सर्वेषामयागमानामर्थपरिज्ञानमाचार्यसहायकादेवोपजायते, न यथाकथञ्चित् । उक्तञ्च
सत्स्वपि फलेषु यद्वन्न ददातिफलान्यकम्पितो वृक्षः ।
तद्वत् सूत्रमपि बुधैरकम्पितं नार्थवद् भवति ॥ इदमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org