________________
उद्देशक ः २, मूलं-५२, [भा. ३३२४]
२७५ 'वनेन तु' वनस्पतिना 'भौमादयः' पृथिव्यप्कायादयः कायाः सूचिताः । एवं 'सभेदाः' भेदप्रभेदसहिताः षडपि कायाः 'सारोपणाः' सप्रायश्चित्ता भणिता अवसातव्याः ॥ [भा.३३२५] जत्थ उ देसग्गहणं, तत्थऽवसेसाई सूइयवसेणं ।
मोत्तूणं अहिगारं, अनुयोगधरा पभासंति ॥ वृ एवमत्रापि यत्र देशग्रहणं तत्रावशेषाण्यार्थपदानि, सूचितं सूचा, भावे क्तप्रत्ययः, तद्वशेनावगन्तव्यानि । तथा कुत्रापि सूत्रेऽनुयोगधराः 'अधिकार' प्रस्तुतार्थं मुक्त्वा सूत्रानुपाति प्रसङ्गागतमर्थं प्रथमतः प्रभाषन्ते, यथा पिण्डाधिकारे प्रस्तुते
"पुढवी आउक्काए, तेऊ वाऊ वणस्सई चेव ।
बिइ तिय चउरो पंचिंदिया य लेवो दसमओ अ॥" इत्यादिनौधनियुक्ती सविस्तरं कायप्ररूपणा कृता । एवं विचित्राणि सूत्राणि भवन्ति, अत एव यावदमीषामर्थ सूरिणा न व्यक्तीकृतस्तावन्न सम्यगवगमपथमुपगच्छति ॥
अथौत्सर्गिका-ऽऽपवादिकसूत्रयोर्विषयविभागमाह[भा.३३२६] उस्सग्गेणं भणियाणि जानि अववादतो तु जानि भवे ।
कारणजातेन मुनी !, सव्वाणि वि जाणितव्वाणि ।। वृ-उत्सर्गेण यानि सूत्राणि भणितानि यानि चापवादतः सूत्राणि तानि हे मुने! कारणजातेन सर्वाण्यपि ज्ञातव्यानि । किमुक्तं भवति ?-प्रतिषिद्धस्य आचरणहेतुः कारणम्, तत्र ज्ञानादि, तत्र चोत्सर्गसूत्रेषु साक्षादुत्सर्गविषयो निबन्धः, अर्थतस्तु कारणजाते तत्राप्यनुज्ञा मन्तव्या; अपवादसूत्रेषु पुनः कारणजातमुद्दिश्य साक्षादपवादविषयो निबन्धः, अर्थतस्तुतत्राप्युत्सर्गोद्रष्टव्यः। एवं सर्वसूत्रेषुतत्त्व उत्सर्गा-ऽपवादांवुभावपिनिबद्धाववगन्तव्यौ ॥अथ किं पुनरनयोः स्वस्थानम्?
इत्याह[भा.३३२७] उस्सग्गेण निसिद्धाइं जाई दव्वाई संथरे मुणिणो।
कारणजाते जाते, सब्वाणि वि नि कप्पंति ।। वृ-'उत्सर्गेण' संस्तरणमाश्रित्य यानि 'द्रव्याणि' प्रलम्बादीनि 'मुनेः' संयतस्य प्रतिषिद्धानि तान्येव ‘कारणजाते' विशुद्धालम्बनप्रकारे 'जाते' समुत्पन्ने सति सर्वाण्यपि कल्पन्ते ।
अत्र परः प्रश्नयति[भा.३३२८] जंचिय पए निसिद्धं, तं चिय जति भूतो कप्पती तस्स ।
एवं होतऽनवत्था, न य तित्थं नेव सचं तु ॥ वृ-'यदेव प्रलम्बादिकं प्राक् पूर्वं निषिद्धं तदेव यदि 'भूयः पुनरपि तस्य साधोः कल्पते, तत एवं सूत्रार्थस्य यांच्छाप्रवृत्तौ चरण-करणस्यानवस्था भवति। ततश्च न तीर्थमनुस(ष]जति, नैव च प्रतिषिद्धं समाचरतः सत्यं संयमो भवति, तदभावे दीक्षा निरर्थिका, तन्निरर्थकतायां मोक्षस्याप्यभावः प्राप्नोति ॥ अपि च[भा.३३२९] उम्मत्तवायसरिसं, खुदंसणं न वि य कप्पऽकप्पं तु ।
अध ते एवं सिद्धी, न होज्ज सिद्धी उ कस्सेवं ॥ वृ-आचार्य! पूर्वमेकत्र सूत्रे प्रतिषिध्य पुनस्तदेवानुजानत इदं भवतो दर्शनमुन्नत्तवाक्यसशं Jain Education International
For Private & Personal Use Only
www.jainelibrary.org