________________
२७४
बृहत्कल्प-छेदसूत्रम् -२-२/५२ उग्घाइयं । तथा येषु सूत्रेष्वपवादो भणितस्तेष्वेवार्थतः पुरनुज्ञाप्रवर्तते तान्यपवादापवादिकानि।।
किञ्चान्यत्[भा.३३२१] कत्यइ देसग्गहणं, कत्थति भन्नति निरवसेसाई।
उक्कम-कमजुत्ताई, कारणवसतो निजुत्ताई। वृ-क्वचित् सूत्रेऽभिधेयपदानां देशतो ग्रहणं क्रियते, कुत्रापिच निरवशेषाण्यभिधेयपदानि भण्यन्ते, तथा कानिचित् सूत्राण्युक्रमयुक्तानि, कानिचित्तुं क्रमयुक्तानि 'कारणवशतः' कारणविशेषमाश्रित्य 'नियुक्तानि' गणधरादिभि श्रुतधरैर्विरचितानि ॥ एतदेव विवृणोति[भा.३३२२] देसग्गहणे वीएहि सूयिया मूलमादिणो हुँति ।
कोहादिअनिग्गहिया, सिंचंति भवं निरवसेसं ॥ वृ-देशग्रहणे कृते सति तज्जातीयानां सर्वेषामपि ग्रहणं भवति, यथा-“सालीणि वा वीहीणि वा" इत्यादावस्मिन्नेव सूत्रे बीजैर्गृहीतैर्मूलादयोऽपि भेदाः सूचिता भवन्ति । कुत्रापि च सूत्रे निरवशेषाण्यभिधेयपदानि गृह्यन्ते, यथा दशवैकालिके क्रोधादयोऽनिगृहीताः सन्तः भवं' संसार 'निरवशेष' चतुर्गतिकमपि सिञ्चन्तीत्युक्तम् । तथा च तत्सूत्रम्
कोहो य मानो य अनिग्गहीया, माया य लोभो अपवड्डमाणा ।
चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुनब्यवस्स ॥ अथोक्रम-क्रमयुक्तानि सूत्राणि दर्शयति[भा.३३२३] सत्यपरिनादुक्कमे, गोयर पिंडेसणा कमेणं तु ।
जंपि य उक्कमकरणं, तमभिनवधम्ममादऽहा ।। वृ-शस्त्रपरिज्ञाध्ययने तेजःकायोद्देशकानन्तरंवायुकायोद्देशकः क्रमप्राप्तोऽपि नोक्तः, किन्तु वनस्पति-त्रसकायोद्दोशकौप्ररूप्यपर्यन्तेऽसौ भणितः, एवमादिकमुक्रमयुक्तंसूत्रमुच्यते । क्वचित्तु सूत्रे क्रमेणैवार्थपदानि भवन्ति, यथा-अष्टौ गोचरभूमयः, तद्यथा-"पैडा अद्धपेडा गोमुत्तिया पतंगवीहिया अंतोसंवुक्का बाहिंसंवुक्का उज्जुगी गंतुंपञ्चागता ।" तथा सप्तपिण्डैषणासूत्रमपि क्रमनिबद्धं मन्तव्यम् । तद्यथा-"असंसट्ठा संसट्ठा उद्धडा अप्पलेवा उग्गहिता पग्गहिता उज्झितधम्मिया ॥" अथवा 'पिण्डैषणा' इतिप्रथमंपिण्डपदंततएषणापदं यत्र ओघनिर्युक्त्यादी सूत्रे यथाक्रमं प्ररूप्यते तत् क्रमनिबद्धम् ।
यदपि चोक्रमकरणं शस्त्रपरिज्ञादावध्ययने तदभिनवधर्माधर्थम् । किमुक्तं भवति ?. अभिनवधर्मा शैक्षः, स ह्यद्याप्यपरिणतजिनवचनतया वायुकायं परिस्फुटमनुपलभ्यमानतया प्रथमतः प्ररूप्यमाणं न सम्यक्प्रतिपद्यते, अतो वनस्पति-त्रसान्प्ररूप्य यदा तेषु सम्यग्जीवत्वं प्रतिपन्नस्तदा वायुकायं जीवत्वेन प्ररूप्यमाणं सुखेनैव श्रद्धत्ते, एवमादिभि कारणैरुकमकरणं मन्तव्यम् ।। अथ "बीएहि सूइया मूलमाइणो" त्ति पदं व्याचष्टे[भा.३३२४] बीएहि कंदमादी, वि सूयिया तेहिं सव्व वणकाओ।
भोम्मादिगा वणेण तु, सभेद सारोवणा भणिता।। - इहैव सूत्र बीजैगृहीतैः कन्द-मूलादयोऽपि भेदाः सूचिताः, तेष्वपि तिष्ठतः प्रायश्चित्तं भवतीति भावः । तैश्च कन्दादिभिः सर्वोऽपि वनस्पतिकायः परीत्ता-ऽनन्तभेदभिन्नः सूचितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org