________________
२८३
उद्देशक : २, मूलं-५२, [भा. ३३६८]
दिट्ठ मए सन्निचया, अन्ने देसे कुटुंबीणं ।। वृ-शालीनां व्रीहीणां तिल-कुलत्यानां मुद्गानां माषाणां च सन्निचया अन्यस्मिन् देशे कुटुम्बिना गृहेषु मया दृष्टाः ।। [भा.३३६९] एवं च भणितमित्तम्मि कारणे सो भणाति आयरियं ।
अस्थि महं सन्निचया, पेच्छह नानाविहे धने ।। वृ-एवं चाचार्येण भणितमात्रेऽपि स सागारिकः कथनकारणे क्रमप्राप्ते सति आचार्य भणतिभगवन् ! सन्ति मे बहवः सन्निचयाः, पश्यत नानाविधानि धान्यानि । एवं ब्रुवन् हस्तसंज्ञया निर्दिशति, यथा-अत्र शालयः सन्ति, अत्र गोधूमाः, अत्र तिला इत्यादि । [भा.३३७०] उवलक्खिया य धन्ना, संथाराणं जहाविधि ग्गहणं ।
जो जस्स उ पाउग्गो, सो तस्स तहिं तु दायव्यो ।। वृ-आचार्येणोपलक्षितानि तानि धान्यानि, ततः संस्तारकाणां 'यथाविधि' यथारलाधिकं ग्रहणे प्राप्तेऽपि तत्र सूरय औत्पत्तिकी सामाचारी स्थापयन्ति । कथम्? इत्याह-यः ‘यस्य' शैक्षग्लानादेीताथदिर्वा धान्यस्य दूरेऽदूरे वा यत्र संस्तारकः प्रायोग्यः स तस्य तत्रावकाशे दातव्यः।। [भा.३३७१] निक्खम-पवेसवजण, दूरेण अभाविया तु धन्नाणं ।
धनतेन परिणता, चिलिमिणि दिवरत्तऽसुन्नं तु ।। वृ- यत्र सागारिको धान्यग्रहणार्थं निष्कामति प्रविशति वा तमवकाशं वर्जयित्वा साधुभिरासितव्यं शयितव्यं वा । ये पुनः 'अभाविताः' अगीतास्ति धान्यानां दूरेण स्थाप्यन्ते । ये तु 'परिणताः' धर्मश्रद्धालवः स्थिरचेतसश्च ते धान्यानाम् अन्तेन-पार्श्वेन क्रियन्ते । धान्यानां चापान्तराले चिलिमिलिका दातव्या । गीतार्थपरिणामकैश्च दिवा च रात्रौ चाशून्यं कर्तव्यम् ।। [भा.३३७२] ते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुव्वं ।
जरमाण वसंती, सपक्खजतणाए गीयत्था । वृ- 'ते' साधवः 'तत्र' उपाश्रये सन्निविष्टाः सन्तः स्वाध्यायादिकं कुर्वन्तीति वाक्यशेषः । तैश्च संस्तारकाः 'विधिपूर्वं यथा पूर्वोक्ता दोषा न भवन्ति तथा गृहीताः । तत्र च गीतार्था 'स्वपक्षयतनायै' स्वपक्षविषयरक्षार्थं 'जाग्रतः' सजागराः 'वसन्ति' स्वपन्ति ।। [भा.३३७३] ठाणं वा ठायंती, निसिज्ज अहवा सजागर सुवंति।
बहुसो अभिद्दवेंते, वयणमिणं वायणं देमि ॥ वृ-ये वा दृढसंहननास्ते 'स्थानं तिष्ठन्ति' कायोत्सर्गं कुर्वन्तीत्यर्थः । अथवा “निसिज्ज"त्ति निषन्नाः ते सूत्रार्थमनुप्रेक्षमाणास्थिष्ठन्ति । यश्च शैक्षादिरपरिणतस्तेषां धान्यराशीनां समीपे व्रजति तत्र गुरवो वृषभा वा सजागराः स्वपन्तस्तथा काशितादिसब्दं कुर्वन्ति यथाऽसौ प्रतिनिवर्तते । अथासौ 'बहुशः' भूयो भूयोऽभिद्रवति ततो गुरुभि सामान्यत इदं वचनं वक्तव्यम्-आर्या ! उत्तिष्ठत येन युष्मभ्यं वाचनां प्रयच्छामि । यद्वा तमेव साधु भणन्ति- आर्य ! तुभ्यमहं वाचनां प्रयच्छामि? ॥ - [भा.३३७४] फिडियं धन्न₹ वा, जतणा वारेंति न उ फुडं बेंति।
मा नं सोही अन्नो, नित्थक्को लज्ज गमनादी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org