________________
२६९
उद्देशक : २, मूलं-५१, [भा. ३३०१] [भा.३३०१] सालीहिं व वीहीहिं व, इति उत्ते होति एतदुत्ते तु ।
सालीमादीयाणं, होति पगारा बहुविहाउ ।।। कृ-शालिभिर्वा व्रीहिभिर्वा इत्युक्ते' एवं बहुवचननिदेशे कृते एतद् 'उक्तम् अभिहितं भवतिशरल्यादीनां धान्यानांबहुविधाः प्रकाश भवन्ति । तद्यथा-कलमशालि रक्तशालिमहाशालिरित्यादि।। उत्क्षिप्तादिपदानां व्याख्यानमाह[भा.३३०२] उक्खित्त भिन्नरासी, विकिक्खत्ते तेसि होति संबंधो।
वितिकिने सम्मेलो, विपइन्ने संथडं जाणे ॥ वृ- उक्षिप्तानि नाम येषां धान्यानां राशयो भिन्नाः । विक्षिप्तानि नाम त एव धान्यराशयो भिन्नाः परमेकतः सम्बद्धाः, अत एवाह-विक्षिप्तपदे व्याख्यायमाने 'तेषां' भिन्नराशीनां सम्बन्धो भवति । व्यतिकीर्णानि तु तानि सर्वाण्यपिधान्यान्येकतः सम्मिलितानि, आह च-व्यतिकीर्णपदे तेषां धान्यानां सम्मीलको भवति। व्यतिकीर्णानि तुतानि सर्वाण्यपि धान्यान्येकतः सम्मिलितानि, आह च-व्यतिकीर्णपदे तेषां धान्यानां सम्मीलको भवति । विप्रकीर्णानि तु सर्वतः संस्तृतानि पुष्पप्रकरवत्, अत एवाह-विप्रकीर्णपदे 'संस्तृत' विप्रकिरणं जानीयात् ।।
अथ यथालन्दपदं व्याचष्टे[भा.३३०३] तिविहं च अहालंदं, जहन्नयं मज्झिमं च अक्कोसं ।
उदउल्लं च जहन्नं, पनगं पुन होइ उक्कोसं ॥ वृ-'त्रिविधं च त्रिप्रकारं यथालन्दम्, तद्यथा-जघन्यं मध्यममुत्कृष्टं च । तत्रोदकाः करो यावत कालेन शुष्यति तावन्मात्रंजधन्यम् । ‘पञ्चकं पञ्चरात्रिन्दिवानि पुनरुत्कृष्टम् । अर्थादापन्नं तयोरपान्तरालवर्ति सर्वमपि मध्यमम् ॥ अथात्र बीजाकीर्णे प्रतिश्रये तिष्ठतां प्रायश्चित्तमाह[भा.३३०४] बीयाईआइन्ने, लहुओ मासो उठायमाणस्स।
आणादिणो अदोसा, विराधना संजमाऽऽताए । वृ"बीयाइ" त्ति आदिशब्दः स्वगतानेकभेदसूचकः । ततश्च बीजैः- शाल्यादिभेदादनैकप्रकारैराकीर्णे उपाश्रये तिष्ठत आचायदिलघुको मासः प्रायश्चित्तम्, अयंच तपः-कालविशेषितः। तद्यथा-आचार्यस्य तपसा कालेनचगुरुकः, उपाध्यायस्य तपसा गुरुकः, वृषभस्य कालेन गुरुकः, भिक्षोस्तपसा कालेन च लघुकाः । एतत् प्रत्येकबीजविषयं प्रायश्चित्तमुक्तम् । अनन्तबीजेष्वप्येवभेव । नवरं मासलघुस्थाने मासगुरुकम् । संयतीनामपि प्रवर्त्तिनी-गणावच्छेदिन्यभिषेकाभिक्षुणीनाभेवमेव वक्तव्यम् । आज्ञादयश्च दोषा अत्र भवन्ति । तथा विराधना संयमे आत्मनि च मन्तव्या । इयं द्विधाऽपि पुरस्तादभिधास्यते ॥ प्रकारान्तरेण प्रायश्चित्तमेवाह[मा.३३०५] उक्खित्तमाइएK, थिरा-ऽथिरेसुंतु ठायमाणस्स।
पनगादी जा भिन्नो, विसेसितो भिक्खुमाईणं ।। १-उक्षिप्तादिषु पदेषु स्थिरा-ऽस्थिरभेदभिनेषु तिष्ठतां भिक्षुप्रभृतीनां पञ्चकादारभ्य भिन्नमासं यावत् तपः-कालिवशेषितं प्रायश्चित्तम् । तद्यथा-उत्क्षिपेक्षु स्थिरसंहननिषु बीजेषु तिष्ठति लघुदशरात्रिन्दिवानि, अस्थिरसंहननिषु लघु दशरात्रिन्दिवानि; विक्षिप्तेषु स्थिरेषु तिष्ठति लघुदशरात्रिन्दिवानि, अस्थिरेषु लघुपञ्चदशरात्रिन्दिवानि; व्यतिकीर्णेषु स्थिरेषु तिष्ठति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org